Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चन्द्रप्राप्तिसूत्रे ज्ञातव्याः ॥३०॥ साम्प्रतं तेषां प्रतिद्वीपसम्बन्धिर्नी संख्यां प्रदर्शयति-'एवं जंबुद्दीवे' इत्यादि एवं-सति 'जंबुद्दीवे दुगुणा' जम्बूद्वीपे द्विगुणौ एकश्चन्द्र एकः सूर्यः प्रतिखण्डमाश्रित्य द्विगु णौ भवतः द्वौ चन्द्रौ द्वौ सूर्या इत्यर्थः । 'लवणे चउग्गुणा इंति' लवणे लवणसमुद्रे चन्द्रस्यों चतुर्गुणौ भवतः चत्वारश्चन्द्राः चत्वार एव सूर्या लवणसमुद्रे सन्तीति । 'लावणगा य तिगुणिया' लावणकाः लवणसमुद्रगता श्चन्द्राः सूर्याश्च चतु श्चतुः संख्यकाः सन्ति ते त्रिगुणिताः यावन्तो भवन्ति तावन्तः द्वादश द्वादशेत्यर्थः 'धायई संडे' धातकीषण्डे भवन्ति ॥३१॥ तानेव पृथक् प्रदर्शयति-'दो चंदा' इत्यादि सुगमम्, एतदर्थ एकत्रिंशत्तमगाथायामनुपदं पूर्वमेव गतः ॥३२॥ साम्प्रतं धातकीषण्डातन गत चन्द्रसूर्याणां संख्याकरणविधिमाह-'धायइसंडप्प. भिइसु' इत्यादि 'धायइसंडप्पभिइसु' धातकीषण्डप्रभृतिषु धातकीषण्डप्रभृतिः आदिर्येषां ते धातकीषण्डप्रभृतयः, तेषु धातकीषण्डप्रभृतिषु-धातकीषण्डात् परात् परस्थितेषु द्वीपेषु समुद्रेषु च 'उद्दिट्ठा' उद्दिष्टाः कथिताः द्वादशादयः, यथा धातकीपण्डे द्वादश चन्द्रा उपलक्षणात्सूर्याश्च, एवमप्रेऽपि चन्द्रशन्देन चन्द्राः सूर्याश्चेति उभयेऽपि ग्राह्याः ते 'तिगुणिया' त्रिगुणिताः त्रिभिर्गुणिताः सन्तः 'आइल्लचंदसहिया' आदिमाः पूर्वगत तत्तद्वीपसमुद्रगता जम्बूद्वीपादारभ्य ये चन्द्राः सूर्याश्च भवन्ति तैः सहिताः सन्तो यावन्त श्चन्द्राः सूर्याश्च भवन्ति तावत् प्रमाणाश्चन्द्राः सूर्याश्च 'अणंतराणंतरे खेत्ते' अनन्तरानन्तरे तत्तद्वीपसमुद्रा दग्रेऽग्रे ये समुद्रा कालोदादयो द्वीपाश्च सन्ति तत्तत्क्षेत्रे भवन्तोति गाथाया अक्षरगमनिका भावना चेत्थम् यथा धातकीषण्डे उद्दिष्टा श्चन्द्रा द्वादश ते त्रिभिर्गुणिता जाताः षट्त्रिंशत्, ततः 'आइल्ल चंदसहिया' आदिमचन्द्रः सहिताः कार्या इति आदिमाश्चन्द्राः षट् यथा द्वौ चन्द्रौ जम्बूद्वीपे, चत्वारो लवणसमुद्रे इति षट् एतैरादि मैः षभिश्चन्द्रैः सहिताः, जायन्ते द्वाचत्वारिंशत् इति कालोदे समुद्रे द्वाचत्वारिंशचन्द्रा , एतावन्त एव सूर्याश्च भवन्ति एवं कालोदे समुद्रे उद्दिष्टाश्चन्द्रा द्विचत्वारिंशत् ते त्रिभिर्गुणिताः जायन्ते षड्विंशत्यधिकं शतं चन्द्राणाम्, अत्रादिमचन्द्रा अष्टादश तथाहि-द्वौ जम्बूद्वीपे, चत्वारो वलवणसमुद्रे, द्वादश धातकीषण्डे, इति जाता अष्टादश, एतै रादिमचन्द्रैः सहितं पइविंशं शतं जातं चतुश्चत्वारिंशं शतम् (१४४), एतावन्तः पुष्करवर द्वीपे चन्द्रास्तत्साहचर्या त्सूर्जाश्च भवन्ति । एवमग्रे द्वोपसमुहेषु अनेनैव विधिना चन्द्र संख्या सूर्यसंख्या च वेदितव्या ॥३३॥ साम्प्रतं प्रतिद्वीप प्रतिसमुद्रस्थितानां, नक्षत्र ग्रह ताराणां परिमाणपरिज्ञानविधिं प्रदर्शयति-'रिक्खग्गहतारग्गं' इत्यादि 'रिक्खग्गहतारग्गं' ऋक्षग्रहताराणाम् अग्रं परिमाणम् अग्रशब्दोऽत्र परिमाणवाचकः, 'दीवसमुद्दे' द्वीपसमुद्रे द्वीपे समुद्रे च स्थितानाम् 'जइच्छसी णाउं' यदि ज्ञातुमिच्छति तदा 'तस्स सिहि' तत्तद्वीपसमुद्र सम्बन्धिभिः शशिभिः चन्द्रैः एवं सूर्यैश्च 'तगुणियरिक्खग्गहतारगग्गं' तद्गुणितं तत्एकस्य चन्द्रस्य परिवारभूतं नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं च यत् पूर्व प्रदर्शितं
Loading... Page Navigation 1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738