Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
६९८
चन्द्रप्रशतिसूत्रे
वा गृह्णातीति कथयन्ति ते ' एवं ' एवम् वक्ष्यमाणप्रकारमाश्रित्य 'आहंसु' कथयन्ति, तमेव प्रकार माह- 'ता राहूण' इत्यादि, 'ता' तावत् 'राहूणं देवे' राहुः खलु देवः चन्द्रं वा सूर्यं वा गृह्णन् कदाचित् 'बुद्धतेणं' बुघ्नान्तेन अधोभागेन गृहीत्वा 'बुद्धतेण मुयइ' बुघ्नान्तेनैव मुञ्चति, बुध्नान्तेनेति अधो भागेन |१| कदाचित् 'बुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ' बुधनान्तेन- अधो भागेन गृहीत्वा मूर्द्धान्तेन उपरि भागेन मुञ्चति स कदाचित् मूर्द्धान्तेन गृहीत्वा बुध्नान्तेन मुति | ३ | कदाचित् 'मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ' मूर्द्धान्तेन उपरि भागेन गृहीत्वा उपरि भागेनैव मुञ्चति ४। कदाचित् - 'वामभुयं तेणं' इत्यादि, वामभुजान्तेन वामपार्श्वेन गृहीत्वा वामभुजान्तेनैव मुञ्चति ५। कदाचित् - 'वामभुयंतेणं गिन्हित्ता दाहि
सुयंतेणं मुयइ' वामभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन दक्षिणपार्श्वेन मुञ्चति । ६ । एवं कदाचित् दक्षिणभुजान्तेन गृहीत्व । वामभुजान्तेन मुञ्चति ७। कदाचित् - दक्षिणभुजान्तेन गृहीत्वा दक्षिणभुजान्तेनैव मुञ्चति । इयं प्रथमप्रतिपत्तिभावना समाप्ता | १| अथ द्वितीयप्रतिपत्तिभावना प्रदश्यते- 'तत्थ जे ते' इत्यादि, 'तत्थ' तत्र प्रतिपत्तिद्वयमध्ये 'जे ते' ये ते द्वितीयप्रति पत्तिवादिनः 'नत्थि णं' इत्यादि प्रतिपादकाः एवमाहुः तथाहि - 'ता नत्थि णं' इत्यादि, तावद नास्ति खलु स राहुर्देवो यः खलु चन्द्रं वा सूर्यं वा गृह्णातीति 'ते एवमाहंसु' ते एवं वक्ष्यमाणप्रकारमाश्रित्य आहुः कथयन्ति तदेवाह - ' तत्थ णं' इत्यादि, 'तत्थ णं' तत्र राहुकर्मविषये खल्लु एवमस्ति, यथा-' इमे पण्णरस कसिणा पोग्गला' इमे - वक्ष्यमाणाः पञ्च दश कृष्णा पुद्गलाः कृष्णवर्णाः पुद्गलाः प्रज्ञप्ताः, तद्यथा ते यथा - ' - 'सिंघाडए' इत्यादि, शृङ्गाटकः १, जटिलकः २, खरकः ३, क्षतकः ४, अञ्जनः ५, स्वञ्जनः ६, शीतलः ७, हिमशीतलः ८, कैलाशः ९, अरुणाभ : १०, प्रभञ्जनः ११, नभः सूरकः १२, कापिलकः १३, पिङ्गलकः १४, राहुः १५ ततः किम् ? इत्यादि - 'ता जया णं' इत्यादि, 'ता' तावत् 'जया णं' यदा खलु 'एए' एते अनन्तरोदिताः 'पण्णरस कसिणा पोग्गला' पञ्चदश कृष्णा: कृष्णवर्णाः पुद्गलाः 'सया' सदा सातत्येन चन्द्रस्य वा सूर्यस्य वा 'लेसाणुबद्धचारिणो' लेश्यानुबद्धचारिणः चन्द्रसूर्यबिम्बगतप्रभासम्बन्धेनानुचारिणः पश्चाद गामिनो भवन्ति : ' तथा ' तदा खलु 'माणुसलोयंसि' मनुष्यलोके मनुष्या एवं वदन्ति एवं खलु राहुश्चन्द्रं वा सूर्ये वा गृह्णाति चन्द्रं वा सूर्ये वा गृसतीति । 'ता जया णं' इत्यादि, यदा खलुः एते पञ्चदश कृष्णाः पुद्गला नो सदा चन्द्रस्य वा सूर्यस्य वा लेश्यानुबद्धचारिणो भवन्ति तदा मनुष्यलोके मनुष्या एवं वदन्ति एवं खलु राहुश्चन्द्रं वा सूर्य वा नो गृह्णाति । एवद्विषये भगवानुपसंहारमाह- 'एए' एवमाहंसु एते प्रथमद्वितीयप्रतिपत्तिवादिनः एवं पूर्वोक्त प्रकारेण आहुः कथयन्तीति ।२। इदं लोकिकं वाक्यं प्रतिपत्तव्यं, किन्तु न वस्तुतो राहुश्चन्द्रं वा सूर्य वा गृह्णातीति द्वितीयप्रतिपतिवादिभावना दर्शिता । २ । एते द्वे अपि प्रति
Loading... Page Navigation 1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738