Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 727
________________ ७०६ चन्द्रप्रज्ञप्तिसूत्रे स यथानामकः कोऽपि पुरुषः प्रथमयौवनोत्थानबलसमर्थः प्रथमयौवनोत्थानबलपमर्थया भार्यया सार्द्धम् अचिरवृत्तविवाहः अर्थार्थी अर्थगवेषणतायै षोडशवर्षविप्रोपितः, स खलु ततः लब्धार्थः कृतकार्यः अनघ समग्रः पुनरपि निजकगृहं यमागतः स्नातः कृतबलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः शुद्धप्रवेश्या ने मगल्यानि वस्त्राणि प्रवरपरिहितः अल्पमहा(भरणालङ्कृतशरीरः मनोज्ञः स्थालीपाकशुद्धम् अष्टादशव्यञ्जनाकुलं भोजनं भुक्तः सन् तस्मिन् तादृशे वासगृहे अन्तः चित्रकर्मणि बाह्यतो दुमितवृष्टमृष्टे विधित्रोल्लोचचिल्लिततले बहुसमसुविभक्तभूमिभागे मणिकिरणप्रणाशितान्धकारेकालागुरु प्रवरकुन्दुरुष्क तुरुष्क धूपमघमघायमानगन्धोद्धताभिरामे सुगन्धवरगन्धिते गन्धर्तीभूते, तस्मिन् तादृशे शयनीये उभयत उन्नते मध्ये नतगम्भीरे सालिङ्गनवर्ति के प्रज्ञाप्त गण्ड विब्बोयणसुरम्ये गङ्गापुलिनवालुकोद्दालसदृशके सुविरबितरजस्त्राणे ओर्यावर क्षौमि. कक्षौमदुकूलपट्टप्रतिच्छादने रक्तांशुकसंवृते सुरम्ये आजिनकाबूग्नवनोतनूलस्पर्श सुगन्धवरकुसुमचर्णशयनोपचारकलिते तया ताश्या भार्यया साद्ध ङ्गारागारचारुवेषया संगतहसितभणितस्थितसंलापविलासनिपुगयुक्तोपचारकुशलया अनुरक्ता विरकया मनोऽनुकूलया एकान्तरतिप्रसक्तः अन्यत्र कुत्रापि मनोऽकुर्वन् इष्टान् शब्दस्पर्श रसरूपगन्धान पञ्चविधान् मानुष्कान् कामभोगान् प्रत्यनुभवन् विहरेत् , तदा न खलु पुरुषः व्युपशमनकालसमये कीदृशं शातासौख्यं प्रत्यनुभवन् विहरति ? उदारं श्रमणायुष्मन् ! तावत् तस्य खलु पुरुषस्य कामभोगेभ्यः एभ्यः अनन्तगुणविशिष्टतरा पव वानव्यन्तराणां देवानां कामभोगाः । वानव्यन्तराणां देवानां कामभोगेभ्यः अनन्तर विशिष्टतरा एव असुरेन्द्रजितानां भवनवासिनां देवानां कामभोगाः । असुरेन्द्रजितानां देवानां कामभोगेभ्यः एभ्यः अनन्तगुणविशिष्टतरा एव असुरकुमाराणामिन्दभूतानां देवानां कामभोगाः। असुरकुमाराणामिन्द्रभूतानां देवानां कामभोगेभ्यः एभ्यः अनन्त गुणविशिष्टतरा एव ग्रहगणनक्षत्रतारारूपाणां कामभोगाः ग्रहगणनक्षत्रतागरूपाणां कामभोगेभ्यः अनन्तगुणविशिष्टतरा एव चन्द्रसूर्याणां देवानां कामभोगाः । तावत् ईदृशान् खलु चन्द्रसूर्या ज्योतिषेन्द्राः ज्योतिष राजाः काममोगान् प्रत्यनुभवन्तो विहरन्ति ॥सू० ४ व्याख्या—'ता चंदस्स णं' इति, 'ता' तावद् 'चंदस्स णं' चन्द्रस्य खलु यौतिषेन्द्रस्य ज्यौतिषराजस्य 'कइ' कति कियत्यः 'अग्गमहिसीओ' अग्रमहिष्यः पट्टराश्यः ज्ञप्ताः ? भगवानाह-'ता चंदस्स णं' इत्यादि, 'ता' तावत् 'चंदस्स णं, चन्द्रस्य खलु ज्यौतिषेन्द्रस्य ज्यौतिषराजस्य 'चत्तारि अग्गमहिसीओ' चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-ता इमाः'चंदप्पभा' इत्यादि, चन्द्रप्रभा १, ज्योत्स्नाभा २, अचिर्मालिः ३, प्रभङ्करा ४ इति 'जहा हेहा तं चेव' यथा अधस्तात् इतः पूर्वमष्टादशे प्राभृते पञ्चमे सूत्रे प्रतिपादितं तदेवतद्वदेवात्रापि सर्व वाच्यम् । कियत्पर्यन्त मित्याह-'जावणोचेव णं मेहुणवत्तियाए' यान्त् यावत्पदेन अग्रमहिषीपरिवारादिवर्णनं गीतनृत्यादिकं च वाच्यम् नैव स्खलु मैथुनवृत्त्येति । एवं सुरस्स वि णेयव्वं' एवम्-अनेनैव प्रकारेण सूर्यस्यापि सर्वा पठनीया विमानादि ऋद्धिः, भेदस्तावदेतावानेव यत् सूर्यस्य चतस्रोऽग्रमहिष्य इमा बाच्याः, तथाहि-सूर्यप्रभा १, आतपा २,

Loading...

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738