Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चन्द्रप्रज्ञप्तिसूत्रे
'भोयणं' भोजनम् 'भुत्ते समाणे' भुक्तः सन् 'तंसि तारिसगंसि' तस्मिन् तादृशके वक्ष्यमाणविशेषणविशिष्टे 'वासघरंसि' वासगृहे शयनगृहे, अस्य विशेषणान्याह 'अंतो सचिकम्मे' अन्तः सचित्रकर्मणि अन्तः अभ्यन्तरे चित्र कर्मणि - सिंहशरभमृगादि चित्राणि, तैः सहिते 'बाहिरओ दूमियघट्टमट्ठे' बाह्यतो बहिर्भागे दूमिते सुधापधिवलिते घृष्टे चिक्कण पाषाणादिना घर्षिते ततो मृष्टे चिक्कणी कृते, 'विचित्तउल्लोयचिल्लियतले' विचित्रेण नानाविधचित्रयुक्तेन उल्लोचेन चन्द्रोदयेन 'चंद्रोवा' इति प्रसिद्धेन 'चिल्लितं' इति दीप्यमानं तलं वासगृहमध्यभागे उपरितनं तलं यस्य तत्तथा तस्मिन् तथा 'बहुसम सुविभत्तभूमिभाए' बहुसमसुविभक्तभूमिभागे तत्र बहुसमः अत्यन्तसमः निम्नोन्नत वर्जितत्वात्, सुविभक्तः सुविच्छित्तिकः रेखादि न्यासप्रकारयुक्तो भूमिभागो भूमितलभागो यत्र तस्मिन् तथा 'मणिकिरणपणा सिधयारे' मणिकिरणप्रणाशितान्धकारे मणिकिरणैः प्रणाशितः
७०८
दूरीकृतः अन्धकारो यत्र तस्मिन् चाकचिक्यमानमणिकिरणप्रकाशयुक्ते 'कालागुरुकुंदुरुक्कतुरुक्क धूवमधमधेंतगंधुद्धयाभिरामे' कालागुरु प्रभृतिगन्धद्रव्यसम्पादितस्य धूपस्य - मानश्य मघमघायमानः अतिशयेन प्रसर्यमाणः यो गन्धः तेन उद्भूतम् सर्वतो व्याप्तम् अत एव अभिरामं तत्रस्थितजनमनोह्लादकं तस्मिन् एतावदेव न 'सुगंध वरगंधिए' सुगंधवरगन्धिते पुष्पनिर्यासादे: 'अत्तर' इति प्रसिद्धस्य श्रेष्ठसुगन्धेन गन्धिते - सुगन्धिते 'गंधव - ट्टिभूए' गन्धवर्तीभूते गन्धद्रव्य गुटिका सदृशे, एताको वासगृहे । अथ तद्गतशयनीयं वर्ण्यते 'सि' इत्यादि, तत्र पुनः 'तंसि तारिसगंसि' तस्मिन् तादृशे 'सयणिज्जंसि' शयनीये, किं विशिष्टे ? इत्याह- 'दुहओ' इत्यादि, 'दुहओ उन्नए' उभयतः उभयोः पार्श्वयो रुन्नते 'मझे णयगंभीरे' मध्ये मध्यभागे नते नम्म्रीभूते अतएव गम्भीरे 'सालिंगणवट्टिए' आलिंगनवर्त्त्या शरीरप्रमाणोपधानेन सहिते 'पण्णत्तगंड बिव्वोयणे सुरम्ने प्रज्ञाप्तगण्डबिब्वोयणसुरम्ये प्रज्ञया विशिष्ट कर्मविषयबुद्धया आप्ते- प्राप्ते - अतीव सुष्ठु परिकर्मिते इत्यर्थः 'विब्बोयणे' उभयतो गण्डोपधानके ताभ्यां सुरम्ये 'गंगा पुलिणवालुया उद्दालसालिसए' गङ्गापुलिनवालुका - गङ्गातटगताया वालुका तस्या उद्दालः - अवदलनं पादादिन्यासेऽधोगमनं तेन सदृशे 'सुविरइयरयत्ताणे' सुविरचितरजस्त्राणे सुविरचितं सुष्टुतया निवेशितं रजस्त्राणं रजो निवारक वस्त्रं यत्र तस्मिन् 'ओयवियखोमिय खोम दुगुल्ल पट्ट पडि च्छायणे' ओयविय सौमदुकुलपट्टप्रतिच्छादने, तत्र ओयवियं-सुपरिकर्मितं क्षौमिकं क्षौमवस्त्रं क्षौमिति 'रेशम' इति प्रसिद्धं तद्वस्त्रं दुकूलं कार्पासिकमतसीमयं वा वस्त्रं तस्य पट्ट्ः - युगल रूपः पट्टशाटकः स प्रतिच्छादनम् - आच्छादनं यस्य तत्तथा तस्मिन् 'रत्तंसुयसंवुडे' रक्तांशुकसंवृते रक्तांशुकेन रक्तवस्त्रनिर्मितमशकगृहाभिधानेन 'मच्छरधानी' इति प्रसिद्धेन संवृते सम्या समन्ततः परिवेष्टिते 'आईणगरूयबूरण वणीय तूलफासे' आजिनकरू तबूरनवनीत तूलस्पर्शे, तत्र
Loading... Page Navigation 1 ... 727 728 729 730 731 732 733 734 735 736 737 738