Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 730
________________ चन्द्राप्तिप्रकाशि काटीका प्रा०२० सु.४ चन्द्रसूर्ययोरग्रमहिषीणां संख्योदि वर्णनम् ७०९ आजिनकं चिक्कणचर्ममयो वस्त्रविशेषः स्वभावतोऽतिकोमलत्वात् , रूतं-कार्पसपक्ष्म, बूरः सुकुमालवनस्पतिविशेषः, नवनीतम् 'मक्खन' इति प्रसिद्धं, तूलः अर्कतूलः एषां स्पर्श इव स्पर्शो यस्य स तथाभूते, 'सुगंधवर कुसुमचुण्णसयणोवयारकलिए' सुगन्धवर कुसुमचूर्ण शयनोप चारकलिते, तत्र सुगन्धानि सुष्ठुगन्धयुक्तानि यानि वरकुसुमानि पाटल चम्पकादि श्रेष्ठपुष्पाणि, तथा ये च सुगन्धाश्चूर्णाः कोष्ठपुटादि सुगन्धद्रव्य सम्पादिताः, तथा एतदतिरिक्तास्तथा विधाः शयनोपचाराः तैः कलिते युक्ते, एतादृशे शयनीये 'ताए तारिसाए भारियाए' तया तादृश्या वक्तुमशक्यरूपतया पुण्यशालिनां योग्यया भार्यया 'सद्धिं' सार्द्धम्, किं विशिष्टया ! इत्याह--'सिंगारागारचारुवेसाए' शृङ्गारागारचारूवेषया शृङ्गारस्य अगारं गृहं शृङ्गाररसपोषकत्वात् तथाभूतः चारुः सुन्दरो वेषः वस्त्रधारणविन्यासरूपो यस्याः सा तथा तया यद्वा 'श्रृङ्गाराकारचारुवेषया' इति च्छाया, ततोऽयमर्थः-शृङ्गारः शृङ्गाररसपोषकः आकारःसन्निवेशविशेषः यस्य स शृङ्गाराकारः इत्थम्भूतश्चारुः शोभनो वेषो यस्या सा तथाभूता तया, 'संगयहसियभणियचिट्टियसंलाव विलासणिउणजुत्तोवयारकुसलाए' संगतहसितभणित चेष्टित संलापविलासनिपुणयुक्तोपचारकुशलया, तत्र संगतं हंसगतिवद् गमनं सविलासं चङ्कमण हसितं सप्रमोदं कपोलसूचितं मन्दं मन्दं हसनं, भणितं-कामोद्दीपकं विचित्रं वचनम् , चेष्टितं सकाममङ्गप्रत्यङ्गावयवप्रदर्शनपुरस्सरं प्रियस्य पुरतोऽवस्थानरूपं चेष्टाकरणम् , संलापः-प्रियेण सह सप्रमोदं सकामं परस्परं कामकथाकरणम् , एतेषां विलासेन शुभलीलया यो निपुणः सूक्ष्मबुद्धिगम्योऽत्यन्त कामविषयपरमनैपुण्योपेतः, युक्तः-देशकालोचितः उपचारः तदाकार व्यवस्थारूपः तेन तत्र वा कुशला तया 'अणुरत्ताविरत्ताए' अनुरक्ता विरक्तया-अनुरक्तया कदाचिदप्यविरक्तया, अतएव 'मणोणुकूलाए' मनोऽनुक्लया पत्युर्मनसोऽनुकूलवर्तिन्या एतादृश्या भार्यया सार्द्धमिति पूर्वेण सम्बन्धः स पुरुषः कीदृशः ? इत्याह-'एगंतरइपसत्ते' एकान्तरतिप्रसक्तः अतिशयेन तयासह रमणासक्तः गृहकार्यादौ अन्यस्त्रियां वा मनो न कुर्वन् अन्यत्र 'अण्णत्थकत्थइ मणं अकुव्वमाणे' अन्यत्र कुत्रापि मनोऽकुर्वन् अन्यत्र मनः करणे हि न यथावस्थिताभिष्टभार्यासमुत्पन्नं कामसुखमनुभूयते, एतादृशः सन् 'इट्टे'-इष्टान्-मनोवाञ्छितान् 'सद्दफरिसरसरूवगंधे' शब्दस्पर्शरसरूपगन्धरूपान् 'पंचविहे' पञ्चविधान् 'माणुस्सए' मानुष्कान् मनुष्यभवसम्बन्धिनः 'कामभोगे' कामभोगान् ‘पच्चणुब्भवमाणे' प्रत्यनुभवन् प्रति-आभिमुख्येन तदनुभवं कुर्वन् 'विहरेज्जा' विहरेत् अवतिष्ठेत् । एवं कथयित्वा भगवान् तत्समयगतकामभोगसुखविषये गौतमं पृच्छति- 'ता से णं' इत्यादि, 'ता' तावत् तावच्छब्दः क्रमार्थः, तेन-आस्तां तावदन्यदतनंवक्तव्यं किन्तु तावदिदं कथ्यताम्-से णं पुरिसे' स खलु पुरुषः 'विउसमणकालसमयंसि' ब्युपशमनकालसमये, व्युपशमनं कामभोगावसानं तस्य काल समये-तथाविधकालेनोपलक्षिते समयेऽवसरे 'केरिसयं सायासोक्खं' कीदृशं तत्कामभोग

Loading...

Page Navigation
1 ... 728 729 730 731 732 733 734 735 736 737 738