Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 704
________________ चन्द्रशतिप्रकाशिकाटीका० प्रा० १९ सू. २ मनुष्यक्षेत्रस्थितचन्द्रादिदेवानां उत्पत्तिक्षेत्रम् ६८३ मण्डलानां तानि तथा प्रदक्षिण वर्त्तानि मण्डलानि तेषां गत्या चारः परिभ्रमणं यत्र स तथा, तं तादृशं मेरुम् 'अणुपरियदृति' मेरुमनुलक्षीकृत्य पर्यटन्ति परिभ्रमन्ति । साम्प्रतं तत्रत्येन्द्रस्य - च्यवते किं कुर्वन्तोति पृच्छति - 'ता तेसिणंदेबाणं' इत्यादि, प्रश्नसूत्रं सुगमम् - तेषां देवानां यदा इन्द्रश्च्यवते तदा ते तदानीं किं प्रकुर्वन्तीतिभावः । भगवानाह - ' ता चत्तारि' इत्यादि, तेषामिन्द्रो यदा च्यवते तदा चत्वारः पञ्च वा सामानिकदेवा मिलित्वा तदिन्द्रस्थानमुपसंपद्यअधिकृत्य विहरन्ति तत्स्थानं परिपालयन्तीत्यर्थः कियदवधि ? इत्याह- 'जाव अण्णे' इत्यादि, यावदन्यइन्द्रः अत्र इन्द्रस्थाने इन्द्रत्वेन उपपन्नो भवति तावदिति । अथ - इन्द्रस्थानस्य विरहकाल पृच्छति - 'ता इंदट्ठाणेणं' इत्यादि, 'ता' तावत् तदिन्द्रस्थानं कियता कालेन कियत्कालपर्यन्तम् 'विरहियं' विरहितम् - इन्द्ररहितं प्रज्ञप्तम् इति प्रश्नः भगवानाह - 'ता जहणेण एक्कं समयं ' इत्यादि, तदिन्द्रस्थानं जघन्येन एकं समयं यावत् उत्कर्षेण षण्मासान् यावत् इन्द्रस्थानमिन्द्रेण रहितं तिष्ठति ततो नाधि कालम्, षण्मासान्ते तु तत्रेन्द्रस्यावश्यमुपपातसद्भावादिति । इति मनुष्यक्षेत्र वक्तव्यता । अथ मनुष्यक्षेत्राद्बहिर्वत्तिनां चन्द्रादीनां वक्तव्यतामाह - 'ता बहियाणं' इत्यादि, 'ता' तावत् 'बहियाणं माणूस्सखेत्तस्स' मनुष्यक्षेत्रस्य बहिः, इत्यादि प्रश्नसूत्रं मनुष्यक्षेत्र वदेव । उत्तरमपि तद्वदेव, नवरमत्र गतिविषये १, तापक्षेत्रसंस्थानप्रमाणविषये २, बाह्यपर्षत्संख्याविषये ३, दिव्यभोगविषये च ४, नानात्वं वर्त्तते, तथाहि - मनुष्यक्षेत्र वर्त्तिनश्चन्द्रादयः चारोपपन्नकाः न तु चारस्थितिकाः गतिरतिकाः गतिसमापन्नकाः प्रोक्ताः, अत्रत्या मनुष्यक्षेत्र वहिर्वर्त्तिनश्चन्द्रादयस्तु नो चारोपपन्नकाः किन्तु चारेस्थितिकाः - चाररहिताः, नो गतिरतिकाः नो गतिसमापन्नकाः नो गतियुक्ता वर्त्तन्ते इत्येवं गतिविषयकं नानात्वम् मनुष्यक्षेत्रवर्त्तिनां तापक्षेत्रमूर्ध्वकृत कदम्बक पुष्पसंस्थानसंस्थितं योजनसाहस्त्रिकं तापक्षेत्र मुक्तम्, अत्र मनुष्यक्षेत्राद्वहिः पक्वेष्टका संस्थानसंस्थितं योजनशतसाहस्रिकं तापक्षेत्रम्, यथा पक्त इष्टका आयामतो दीर्घा विस्तरतस्तु स्तोका चतुरस्रा च तथा तेषामपि मनुष्यक्षेत्राद्वहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यपि आयामतोऽनेक योजनशतसहस्रप्रमाणानि, विस्तरत एक योजनशतसहस्राणि चतुरस्राणि चेति तापक्षेत्रसंस्थानप्रमाणविषयकं नानात्वम् । अन्तर्मनुष्यक्षेत्रे चन्द्रसूर्यादयः अनेकसहस्रसंख्याभिर्वैकुर्विक बाह्यपर्षद्भिः सार्द्धं नाट्यगीतवादित्रादिरवेण उत्कृष्टसिंह - नादबोलकलकलरवेण प्रदक्षिणावत्तमण्डलचारं मेरुमनुलक्षीकृत्य पर्यटन्ति, अत्र मनुष्यक्षेत्र बहिर्वर्त्तिनश्चन्द्रादयस्तु अनेकशतसहस्रप्रमिताभिर्वै कुविक बाह्य पर्षद्भिः सार्द्ध नाट्यगीतवादित्रादिरवेण दिव्यान् भोगभोगान् भुञ्जाना विहरन्तीति पर्षद् विषयकं दिव्यभोगभोगविषयनानात्वम् ॥ कथम्भूतास्ते मनुष्यक्षेत्रबहिवर्त्तिनश्चन्द्रसूर्या: ? इत्याह- 'मुहलेस्सा' सुखलेश्याः एतद्विशेषणं

Loading...

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738