Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 711
________________ aaaaaaaaaaaaa चन्द्रप्रज्ञप्तिसूत्रे प्रत्येकमसंख्येयानि चन्द्रसूर्यग्रहगणनक्षत्राणि असंख्येयास्तारागणकोटोकोट्य इति । अत ऊर्ध्व देवादयः पञ्च पञ्चद्वीपाः समुद्राश्च एक प्रत्यवताराः इति उक्तञ्च जीवाभिगमसूत्रे "देवे नागे जक्खे, भूयेय सयंभूरमणे य, एक्केक्के चेव भाणियव्वे तिपडोयारं नत्थि" इति । ते एव प्रदर्श्यन्ते- 'सूरवरोभासोदण्णं' इत्यादि अत्र पूर्वोक्तमन्तिमं सूर्यवरावभासोदं समुद्रम् 'देवे णाम दौवे' देवो नाम द्वीपः वृत्तो वलयाकारसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठिति । अयं देवो द्वीपः समचक्रवालसंस्थितः किन्तु नो विषमचक्रवाल संस्थितः अस्य विष्कम्भः परिक्षेपश्च असंख्येययोजनसहस्रप्रमाणः चन्द्रादयश्चासंख्येया व्याख्येयाः 'एवं देवोदे' इत्यादि, देवोदः समुद्रः १ नागो द्वीपो नागोदः समुद्रः २, यक्षो द्वीपो यक्षोदः समुद्रः ३, भूतो द्वीरो भूतोदः समुद्रः ४, स्वयम्भूरमणो द्वीपः स्वयम्भूरमणः समुद्रः । 'सव्वे' इति सर्वे एते देवोदः समुद्रः, नागादयो द्वीपाः, नागोदादयः समुद्राश्चेति सर्वे: 'देवदीवसरिसा' देवद्वीपसदृशाः, अतो देवद्वीपवदेव व्याख्येयाः। देवादि द्वीपसमुद्रगतं देवानां भावना चेत्थम् देवे द्वीपे देवभद्र-देवमहाभद्रौ पूर्वापरार्द्ध भागस्वामिनौ स्तः, एवं देवे समुद्रे-देववर-देवमहावरो, नागद्वीपे नागभद्र-नागमहाभद्रौ, नागे समुद्रे नागवर-नागमहावरौ, यक्षे द्वीपे यक्षभद्र-यक्षमहाभद्रौ, यक्षे समुद्रे यक्षवर-यक्षमहावरो, भूते द्वीपे भूतभद्र भूत महाभद्रौ भूते समुद्रे भूतवर-भूतमहावरौ-स्वयम्भूरमणे समुद्रे स्वयम्भूवरस्वयम्भूमहावरौ देवौ स्वामित्वेन तिष्ठत इति । इह नन्दीश्वरादयः सर्वे समुद्राः भूतसमुद्रपर्यवसाना इक्षुरसोद (क्षोदोद) समुद्रसदृशोदकाः प्रतिपत्तव्याः । स्वरम्भूरमणसमुद्रस्य •तु उदकं पुष्करोदसमुद्रोदकसदृशं ज्ञातव्यम् । तथा जम्बूद्वीप इति नामानोऽसंख्येया द्वीपाः लवण इति नामानोऽसंख्येयाः समुद्राः, एवं तावद् वाच्यं यावत् सूर्यवरावभासइति नाम्ना असंख्येया समुद्राः । ये तु पञ्चदेवादयो द्वीपाः, पञ्च देवोदादयः समुद्रास्ते एकैका एवावसे या न तु त्रिप्रत्यवताराः, उक्तञ्च जीवाभिगमे"केवइया णं भंते ! जंबूद्दीवा दीवा पन्नत्ता !। गोयमा ! असंखेज्जा पन्नत्ता । केवइयाणं भंते ! देवदीवा पन्नत्ता ! गोयमा ! एगे देवदीवे पण्णत्ते । दसवि एगागारा" इति छायाकियन्तः खलु भदन्त ! जम्बूद्वीपाः द्वीपा प्रज्ञप्ताः ? गौतम ! असंख्येयाः प्रज्ञप्ताः । कियन्तः खलु भदन्त ! देवद्वीपाः प्रज्ञप्ताः ! गौतम ! एको देव द्वीपः प्रज्ञप्तः । दशापि एकाकाराः ।।इति । 'दशापि' इति दश-देव-नाग-यक्ष-भूत-स्वयम्भूरमणे तिनामानः पञ्च द्वीपाः, एतन्नामान एव पञ्चसमुद्रा इति दश एते दश एकाकाराः एकप्रत्यवताराः सन्तीति ॥ सू० ४ ।। इति श्री जैनाचार्यजैनधर्मदिवाकर पूज्य श्री घासीलालवति विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका ख्यायां व्याख्यायामेकोनविंशतितमं प्राभृतं . समाप्तम् ॥ १९ ॥

Loading...

Page Navigation
1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738