Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 710
________________ wafaaiशिका टीका० प्रा० १९ सु. ४ चन्द्रादिमन्तरद्वीपसमुद्रनिरूपणम् ६८९ किं समचक्रवालसंस्थितः नो विषमचक्रवालसंस्थितः ? । तावत् समचक्रवालसंस्थितः नो विषमचक्रवालसंस्थितः । तावत् रुचकः खलु द्वीपः कियान् विष्कम्मेण ? कियान्परिक्षेपेण आख्यातः ? इति वदेत् । तावत् असंख्येयानि योजनसहस्राणि चक्रवाल विष्कम्भेण, असंख्येयानि योजनसहस्राणि परिक्षेपेण आख्यात इति वदेत् । तावत् रुचके खलु द्वीपे कियन्तश्चन्द्राः प्राभासयन् वा ३ पृच्छा । तावत् रुचके खलु द्वीपे असं श्येया चन्द्राः प्राभासयन् वा ३ यावत् असंख्येया स्तारागण कोटीकोटयः शोभामशोभन्त षा ३ । एवं रुचकोदः समुद्रः रुचकवरो द्वीपः रुचकवरोदः समुद्रः रुचकवरावभासो द्वीपो रुचकवरावभासः समुद्रः । एवं त्रिप्रत्यवतारा ज्ञातव्याः, यावत् सूर्यो द्वीपः सूर्योदः समुद्रः सूर्यवरो द्वीपः सूर्यवरोदः समुद्रः सूर्यवरावभासो द्वीपः सूर्यवरावभासोदः समुद्रः ! सर्वेषां विष्कम्भपरिक्षेप- ज्योतिष्काणि रुचकद्वीपसद्रशानि । तावत् सूर्यवरावभासों खलु समुद्रं देवो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात् संपरि क्षिप्य खलु तिष्ठति यावत् नो विषमचक्रवालसंस्थितः । तावत् देवः खलु द्वीपः कियान् चक्रवालविष्कम्भेण ? कियान् परिक्षेपेण आख्यातः ? इति वदेत् । तावत् असंयेयानि योजन सहस्राणि चक्रवालविष्कम्भेण असंख्येयानि योजनसहस्राणि परिक्षेपे ण आख्यात इति वदेत् । तावत् देवे खलु द्वीपे कियन्तश्चन्द्राः प्राभासयन् वा ३ पृच्छा तथैव । तावत् देवे खलु द्वीपे असंख्येयाञ्चन्द्राः प्राभासयन् वा ३, यावत् असंख्येयास्तारागणकोटो कोटयः शोभामशोभन्त वा ३ । एवं देवोदः, समुद्रः, नागो द्वीपो नागोदः समुद्रः, यक्षो द्वीपः यक्षोदः समुद्रः, भूतो द्वीपः भूतोदः समुद्रः, स्वयम्भूरमणो द्वीपः स्वयम्भूरमणः समुद्रः, सर्वे देवद्वीपसदृशाः ॥सू०॥४॥ एकोनविंशतितमं प्राभृतं समाप्तम् ॥१९॥ व्याख्या -- 'कुंडळवरोभासण्णं समुदं' इति 'कु' डलवरोभासणं समुद्द" कुण्डलवरावभासं खलु समुद्रं रुचको द्वीपो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य - परिवेष्ट्य खलु तिष्ठति, इत्यादि सुगमम् तथा हि- रुचको द्वीपः समचक्रवालसंस्थितः किन्तु विषमचक्रवालसंस्थितो न । अस्य विष्कम्भः परिक्षेपश्च असंख्येययोजनसहस्रप्रमाणः । अत्र चन्द्रसूर्यनक्षत्रग्रहगणतारा असंख्येया वर्त्तन्ते । ' एवं रुचगोदे समुद्दे' इत्यादि एवम् - अनेनैव प्रकारेण रुचकः समुद्रः, रुचकवरो द्वीपः, रुचक्रवरोदः समुद्रः रुचकवरावभासो द्वीपः रुचकवरावभासः समुद्रः ' एवं ' इत्यादि, एवमनेन प्रकारेणैव तिपडोयारा' त्रिप्रत्यवताराः, त्रयः प्रत्यवताराः सदृशनामरूपा येषु येषां वा ते त्रिप्रत्यवतारा ज्ञातव्याः कियत्पर्यन्तमित्याह'जाव' इत्यादि 'जाव' यावत् 'सूरे दीवे' इत्यादि, सूर्य सूर्यवरसूर्यावभासा द्वीपाः, एतन्नामा एव समुद्राश्च प्रत्येकद्वीपस्याग्रे ज्ञातव्याः एते सर्वे त्रिप्रत्यवतारा वर्त्तन्ते । 'सव्वेसिं' इत्यादि, सर्वेषामेतेषां रुचकसमुद्रप्रभृतीना सूर्यवरावभाससमुद्रपर्यन्तानां विष्कम्भः, परिक्षेपः ज्योतिष्काणि च 'रुयगदोवसरिसाई' रुचकद्वीपसदृशानि तथाच - असंख्येययोजनसहस्रप्रमाणो विष्कम्भः परिक्षेपश्च ८७

Loading...

Page Navigation
1 ... 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738