________________
चन्द्रशतिप्रकाशिकाटीका० प्रा० १९ सू. २ मनुष्यक्षेत्रस्थितचन्द्रादिदेवानां उत्पत्तिक्षेत्रम् ६८३ मण्डलानां तानि तथा प्रदक्षिण वर्त्तानि मण्डलानि तेषां गत्या चारः परिभ्रमणं यत्र स तथा, तं तादृशं मेरुम् 'अणुपरियदृति' मेरुमनुलक्षीकृत्य पर्यटन्ति परिभ्रमन्ति । साम्प्रतं तत्रत्येन्द्रस्य - च्यवते किं कुर्वन्तोति पृच्छति - 'ता तेसिणंदेबाणं' इत्यादि, प्रश्नसूत्रं सुगमम् - तेषां देवानां यदा इन्द्रश्च्यवते तदा ते तदानीं किं प्रकुर्वन्तीतिभावः । भगवानाह - ' ता चत्तारि' इत्यादि, तेषामिन्द्रो यदा च्यवते तदा चत्वारः पञ्च वा सामानिकदेवा मिलित्वा तदिन्द्रस्थानमुपसंपद्यअधिकृत्य विहरन्ति तत्स्थानं परिपालयन्तीत्यर्थः कियदवधि ? इत्याह- 'जाव अण्णे' इत्यादि, यावदन्यइन्द्रः अत्र इन्द्रस्थाने इन्द्रत्वेन उपपन्नो भवति तावदिति । अथ - इन्द्रस्थानस्य विरहकाल पृच्छति - 'ता इंदट्ठाणेणं' इत्यादि, 'ता' तावत् तदिन्द्रस्थानं कियता कालेन कियत्कालपर्यन्तम् 'विरहियं' विरहितम् - इन्द्ररहितं प्रज्ञप्तम् इति प्रश्नः भगवानाह - 'ता जहणेण एक्कं समयं ' इत्यादि, तदिन्द्रस्थानं जघन्येन एकं समयं यावत् उत्कर्षेण षण्मासान् यावत् इन्द्रस्थानमिन्द्रेण रहितं तिष्ठति ततो नाधि कालम्, षण्मासान्ते तु तत्रेन्द्रस्यावश्यमुपपातसद्भावादिति । इति मनुष्यक्षेत्र वक्तव्यता ।
अथ मनुष्यक्षेत्राद्बहिर्वत्तिनां चन्द्रादीनां वक्तव्यतामाह - 'ता बहियाणं' इत्यादि, 'ता' तावत् 'बहियाणं माणूस्सखेत्तस्स' मनुष्यक्षेत्रस्य बहिः, इत्यादि प्रश्नसूत्रं मनुष्यक्षेत्र वदेव । उत्तरमपि तद्वदेव, नवरमत्र गतिविषये १, तापक्षेत्रसंस्थानप्रमाणविषये २, बाह्यपर्षत्संख्याविषये ३, दिव्यभोगविषये च ४, नानात्वं वर्त्तते, तथाहि - मनुष्यक्षेत्र वर्त्तिनश्चन्द्रादयः चारोपपन्नकाः न तु चारस्थितिकाः गतिरतिकाः गतिसमापन्नकाः प्रोक्ताः, अत्रत्या मनुष्यक्षेत्र वहिर्वर्त्तिनश्चन्द्रादयस्तु नो चारोपपन्नकाः किन्तु चारेस्थितिकाः - चाररहिताः, नो गतिरतिकाः नो गतिसमापन्नकाः नो गतियुक्ता वर्त्तन्ते इत्येवं गतिविषयकं नानात्वम् मनुष्यक्षेत्रवर्त्तिनां तापक्षेत्रमूर्ध्वकृत कदम्बक पुष्पसंस्थानसंस्थितं योजनसाहस्त्रिकं तापक्षेत्र मुक्तम्, अत्र मनुष्यक्षेत्राद्वहिः पक्वेष्टका संस्थानसंस्थितं योजनशतसाहस्रिकं तापक्षेत्रम्, यथा पक्त इष्टका आयामतो दीर्घा विस्तरतस्तु स्तोका चतुरस्रा च तथा तेषामपि मनुष्यक्षेत्राद्वहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यपि आयामतोऽनेक योजनशतसहस्रप्रमाणानि, विस्तरत एक योजनशतसहस्राणि चतुरस्राणि चेति तापक्षेत्रसंस्थानप्रमाणविषयकं नानात्वम् । अन्तर्मनुष्यक्षेत्रे चन्द्रसूर्यादयः अनेकसहस्रसंख्याभिर्वैकुर्विक बाह्यपर्षद्भिः सार्द्धं नाट्यगीतवादित्रादिरवेण उत्कृष्टसिंह - नादबोलकलकलरवेण प्रदक्षिणावत्तमण्डलचारं मेरुमनुलक्षीकृत्य पर्यटन्ति, अत्र मनुष्यक्षेत्र बहिर्वर्त्तिनश्चन्द्रादयस्तु अनेकशतसहस्रप्रमिताभिर्वै कुविक बाह्य पर्षद्भिः सार्द्ध नाट्यगीतवादित्रादिरवेण दिव्यान् भोगभोगान् भुञ्जाना विहरन्तीति पर्षद् विषयकं दिव्यभोगभोगविषयनानात्वम् ॥
कथम्भूतास्ते मनुष्यक्षेत्रबहिवर्त्तिनश्चन्द्रसूर्या: ? इत्याह- 'मुहलेस्सा' सुखलेश्याः एतद्विशेषणं