________________
चन्द्रप्राप्तिसूत्रे चन्द्राणां तेन तत्रत्याश्चन्द्राः नातिशीतप्रकाशाः किन्तु सुखोत्पादकहेतुपरमलेश्या युक्ताः सन्ति । मंदलेश्याः-एतद्विशेषणं सूर्याणाम् तेन तत्रत्याः सूर्याः नात्युष्णतेजसः, एतदेव व्याचष्टे'मंदातवलेस्सा' मन्दातपलेश्याः, मन्दा अनत्युष्ण स्वभावा आतपरूपा लेश्या रश्मिसमूहो येषां ते तथा । पुनः कीदृशाश्चन्द्रादित्याः ? इत्याह-'चित्तंतरलेस्सा' चित्रान्तरलेश्याः चित्र विचित्रम् अन्तरम्-अन्तरालं परस्परव्यवधानरूपं लेश्या च येषां ते, तथा, ते इत्थम्भूताश्चन्द्रादित्याः 'अण्णोण्णसमोगाढाहिं लेस्साहिं' अन्योन्यसमवगाढाभिः परस्परसंमिलिताभिः लेश्याभिः प्रभाभिः, तथाहि-चन्द्राणां सूर्याणां च प्रत्येकं लेश्या योजनशतसहस्रप्रमाणविस्ताराः, सूचि पङ्क्तया व्यवस्थितानां च तेषां चन्द्रसूर्याणां परस्परमन्तरं पञ्चाशत् पञ्चाशद् योजनसहस्राणि, ततश्चन्द्रप्रभासंमिश्राः सूर्यप्रभाः, सूर्यप्रभासंमिश्राश्च चन्द्रप्रभा इति, इत्थं परस्पर समवगाढाभिर्लेश्याभिः 'कूडाइव ठाणट्ठिया' कूटानोव पर्वतोपरिव्यव स्थतशिखराणीव स्थानस्थिताः स्थाने स्वस्थाने एव सदाकालं स्थिताः सन्तः 'ते पए।' तान् स्वस्व प्रत्यासन्नान् प्रदेशान् 'सव्वओ समंता' सर्वतः समन्तात् दिक्षु-विदिक्षु 'ओभासंति' अवभासयन्तिप्रकाशयन्ति, 'उज्जोवेंति' उद्योतयन्ति दीप्ति युक्तानि कुर्वन्ति, 'ताति' तापयन्ति सुखदतापयुकानि कुर्वन्ति 'पभासेंति' प्रभासयन्ति भासमानानि कुर्वन्ति । अन्यत्सर्वं मनुष्यक्षेत्र कथितवदेव व्याख्येयम् , तथाहि-इन्द्रच्यवने चतुः पञ्च सामानिकदेवद्वारा इन्द्र स्थानपरिरक्षणम्-तत्र-इन्द्रविरहकालो जघन्येन एकं समयं यावत् , उत्कृष्टेन षण्मासान् यावद् भवतीति भावः ॥सू० २॥
गता पुष्करवरद्वीपवक्तव्यता, साम्प्रतं तदने स्थितानां द्वीपसमुद्राणां वक्तव्यतां प्रति पादयन् प्रथमं पुष्करवरद्वीपं पुष्करोदः समुद्रः संपरिवेष्टय तिष्ठतीति तद्वक्तव्यतामाह-'ता पुक्खरवरं णं दीवं' इत्यादि । . मूलम्-ता पुक्खरवरं णं दीवं पुक्खरोदे णामं समुद्दे बट्टे वलयागारसंठाणसंठिए जाव चिट्टइ, एवं विक्खंभो, परिक्खेवो जोइस च भाणियध्वं जहा जीवाभिगमे जाव सयंभूरमणे ॥९० ३॥
____ छाया तावत् पुष्कारवर स्खलु द्वीपं पुष्कारोदो नाम समुद्रः वृत्तः बलयाकार संस्थानसंस्थितः यावत् तिष्ठति, एवं विष्कम्भः, परिक्षेपः, ज्योतिष्कंच भणितव्यं यथा जीवाभिगमे यावत् स्वयम्भूरमणः । सू० ३॥ ... व्याख्याता पुक्खरवरं णं दीवं' इति 'ता' तावत् 'पुक्खरवरं णं दीवं' पुष्कर वरं खलु द्वीपम् 'पुक्खरोदे णामं समुद्दे' पुष्करोदो नाम समुद्रः, कीदृशः ? इत्याह-'वट्टे' इत्यादि, 'वट्टे' वृत्तः गोलाकारः, गोलाकारस्तु घनरूपेणापि स्यादत आह-'वलयागारसंठाण संठिए' वलयाकारम् अन्तः शुषिरत्वात्, तद्रूपं संस्थान माकारः, तेन संस्थितः वलयाकृति