SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ ६८२ चन्द्रप्राप्तिसूत्रे स्थानस्थिताः तान् प्रदेशान् सर्वतः समन्ताद् अवभासयन्ति, उद्द्योतयन्ति, तापयन्ति, प्रभासयन्ति । तावत् तेषां खलु देवानां यदा इन्द्रः यवते अथ कथमिदानी प्रकुर्वन्ति? तावत् चत्वारः पञ्च सामानिकदेवा तत् स्थानमुपस पद्य खलु विहरन्ति यावद् अन्योऽत्र इन्द्र उपपन्नो भवति । तावत् इन्द्रस्थान खलु कियता कालेन विरहितं प्रशप्तम् ? तावद् जघन्येन एक समयम् उत्कृष्टेन षण्मासान् (सू०२)। ___ व्याख्या-'अंतो मणुस्स खेते' इति, मनुष्यक्षेत्रमध्ये ये चन्द्रादयो देवास्ते किम् 'उडूढोववन्नगा' इत्यादि, ऊोपपन्नकाः उर्व सौधर्मादि द्वादशकल्पेभ्य उपरि उपपन्नाः ? किं कल्पोपपन्नकाः सौधर्मादिकल्पेषु उपपन्नाः ! किं विज्ञानोपपन्नाः सामान्यविमानेषु उपपन्नाः ? किं चारोपपन्नकाः, चारो मण्डलगत्या परिभ्रमणं, तनुपपन्नाः तमाश्रिताः ? किं चारस्थितिकाः-चारस्य स्थितिरभावो येषां ते तथा चारवर्जिताः ? गा रतिकाः गतौ रतिरासक्तिर्येषां ते तथा गतिप्रियाः अत्र गतौ रतिमात्रमुक्तम्, साम्प्रतं साक्षाद् गति षयं प्रश्नं करोति, 'किं गइ समावन्नगा' किं गतिसमापन्नकाः गतियुक्ताः ? भगवानाह-'ता ते णं देवा' इत्यादि, तावत् ते चन्द्रसूर्यादयो देवा नो ऊोपपन्नकाः नापि कल्पोपपन्नकाः किन्तु विमानोपपन्नकाः विमानेष्वेव ज्योतिष्कविमानेष्वेव तेषामुत्पत्तिसद्भावात्, तथा चारोपपन्नकाः परिभ्रमणशीलाः किन्तु नो चारस्थितिका चाररहिता नेत्यर्थः, गतिरतिकाः स्वभावतोऽपि गति प्रयास्ते देवाः, एतावदेव न किन्तु गतिसमापन्नकाः गतियुक्ता अपि सन्ति मनुष्यक्षेत्रान् वर्तिनश्चन्द्र सूर्यग्रहगणनक्षत्रतारारूपा देवा इति । साम्प्रतमेषां तापक्षेत्रादिवक्तव्यतामाह-'उहाह' इत्यादि, ऊर्ध्वमुखीकृतकदम्बकपुष्पवत् संस्थानम् अन्तः संकुचितबहिर्विस्तृतत्वात्तादृयः संस्थानं तेन संस्थितैः तदाकारैः योजनसाहस्रिकैः अनेकसहस्रयोजनप्रमाणैस्तापक्षेत्रः, साहनिकाभिः अनेक सहस्रसंख्याभिर्बाह्याभिः, अत्र बहुवचनं व्यक्तय पेक्षया, वैकुर्विकाभिः विकुवि नानारूपधारिणीभिः पर्षद्धिः 'महयाहय.' इत्यादि तत्र महताहतानि महता रवेणेत्यग्रेण सम्न्धः , अहतानि अक्षतानि असवलि• तानि यानि नाट्यानि गीतानि वादित्राणि च, याश्च तन्त्र्यो-वीणाः ये च तलतालाः हस्ततालाः, यानि च त्रुटितानि-शेषाणि तूर्याणि, ये च घनाः-धनाकाराः “वनिसाधर्म्यात् पटुना-निपुणपुरुषेण प्रवादिता मृदङ्गाः, तेषां महता रवेण, तथा 'महया उक्किट्ठिसीहनादकलकलरवेणं' उत्कृष्टितः स्वभाबतो गतिरतिकैबाह्यिपरिषदन्तर्गत देवेगेन गच्छत्सु विमानेषु त्कर्षवशात् ये मुच्यन्ते सिंहनादाः सिंहवद्गर्जनरूपाः शब्दाः, यश्च क्रियमाणो बोलः, बोलो नाम यत् मुखे हस्तं दत्त्वा महताशब्देन प्रक्रियते सः, यश्च कलकलो व्याकुलः शब्दसमूहः, तद्रवेण, एतादृश शब्दपूर्वक मित्यर्थः 'अच्छ' अतीव स्वच्छम् अतिनिर्मलजाम्बूनदरत्नबहुलत्वात् पर्वतराजं पर्वतेन्द्रं 'पयाहिणावत्तमंडलचारं' प्रदक्षिणावर्तमण्डलगत्या प्र-प्रकर्षेण दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां मेरुदक्षिण एवं भवति यस्मिन्नावर्ते मण्डलपरिभ्रमणरूपे स प्रदक्षिणः, एतादृशः, प्रदक्षिण आवत्तॊ येषां
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy