Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चन्द्रशप्तिप्रकाशिकाटीका प्रा०१९ सू १ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्या दिकम् ६७७ न दृश्यते । सूत्रे 'बावडिं बावहिं' इति प्रोक्तं तेन 'द्वाषष्टि भागसत्कान् चतुरश्चतुरो भागान इत्यर्थो बोध्यः । शास्त्रभाषया सर्वत्र 'बावटुिंबावडिं' इति लभ्यते, उक्तञ्च समवायाङ्गेऽपि "मुक्कपक्खस्स दिवसे दिवसे चंदो बावट्टि भागे परिवड्ढई" इति, व्याख्यानं तु सर्वत्र पूर्ववदेव, एतस्यैव सङ्गतत्वात्, अत्रैतादृशस्यैव भगवद्भावस्य गर्मितत्वाच्चेति ॥२६॥ तदेव सूत्रकारो व्याचष्टे - 'पण्णरसभागेण' इत्यादि, कृष्णपक्षे राहुः ‘पण्णरसभागेण य' पञ्चदशभागेन राहुविमानस्य षष्टिभागात्मकत्वेन स्वस्य विमानस्य पञ्चदशेन भागेन चतुभार्गात्मकेन 'चंदं पण्णरस मेव' चान्द्र पञ्चदशं भागमेव चन्द्रसम्बन्धिनं पञ्चदशमेव भागं चतुर्भागात्मकम् 'वरइ' वृणुतेआच्छादयति । एवं शुल्कपक्षे च 'पुणोवि' पुनरपि 'पण्णरसभागेण य' स्वकीयविमानस्य पञ्चदशेन भागेन वा 'पुणोवि' पुनरपि 'तं चेव' तमेव वर्द्धनक्रममाश्रिन्य प्रतिदिवसं पञ्चदशं भाग चतुर्भागरूपं आत्मीयेन पञ्चदशेन भागेन चतुर्भागरूपेण 'वक्कमइ' अपक्रामति-पृथग्भवति मुञ्चतीत्यर्थः । अयं भावः --कृष्णपक्षे प्रतिपदात आरभ्यात्मीयेन पञ्चदशेन भागेन चतुर्भागरूपेण प्रति दिवसमेकैकं पञ्चदशं भागं चतुर्भागरूपमुपरितनभागादारभ्याच्छादयति । एवं शुल्कपक्षे प्रतिपदात आरभ्य तेनैव क्रमेण प्रतिदिवसं चन्द्रमण्डलस्य चतुर्भागरूपं पंचदशं भागं प्रकटीकरोति तेन जगति चन्द्रमण्डलस्य वृद्धि होनिश्च प्रतिभासते किन्तु स्वरूपतः पुनश्चन्द्रमण्डलस्य न वृद्धिर्न हानिः, तत्तु यथावस्थितमेव भवति ॥२७।। अथास्यों संहारमाह 'एवं वड्ढइ चंदो' इत्यादि, ‘एवम् अनेन प्रकारेण नित्यराहुविमानेन प्रतिदिवसमनावृतरूपेण प्रकारेण 'बडूढइ चंदो' शुल्कपक्षे चन्द्रो वद्धते वर्द्धमानः प्रतिभासते । एवमेव राहुविमानेन प्रतिदिवसं क्रमेणा ऽऽवरणकरणतः कृष्णपक्षे 'परिहाणी होइ चदस्स' चन्द्रस्य परिहानिर्भवतीति भासते । 'एवणुभावेण' एवम् एतेनानुभावेन कारणेन 'चंदस्स' चन्द्रस्य पक्षः 'कालो वा जुण्होवा' कालोवा ज्योत्स्नोवा भवति एकः पक्ष कालः-कृष्णो भवति एकश्च ज्योत्स्नः ज्योत्स्नावान् शुल्क इत्यर्थः भवति ॥२८॥ अत्र मनुष्यक्षेत्रे चन्द्रादयश्चारिणः सन्ति, न तु स्थिरा इत्याह 'अंतो मणुस्स खेत्ते' इत्यादि, 'अंतो मणुस्स खेत्ते' मनुष्य क्षेत्रस्य मध्ये 'पंचविहा जोइसिया' पञ्चविधा ज्योतिष्काः के ते इत्याह 'चंदा सूरा गहगणाय' चन्द्राः सूर्या ग्रहगणाः च शब्दात् नक्षत्राणि तारकाश्च 'हवंति' भवन्ति । एते सर्वे चतुर्विधा अपि ज्योतिष्काः अत्र 'चारोवगा' चारोपकाः चारं चरन्तः 'उववन्ना' उपपन्नाः लब्धाः चारचारिणो लभ्यन्ते इति भावः ॥२९॥ मनुष्य क्षेत्रा द्वहिर्योतिष्का अवस्थिता सन्तीत्याह-'तेण परे' इत्यादि, 'तेण परं' तेन परं ततः मनुष्य क्षेत्रात् परम्-अग्रे 'जे सेसा' यानि शेषाणि-बाह्य पुष्कार‘दीनि क्षेत्राणि सन्ति तत्र 'चंदाइच्च' गहगणतारणक्खत्ता' चन्द्रादित्यग्रहगणतारकनक्षत्राणि, इत्येते सर्वे पञ्चविधा ज्योतिष्का ये सन्ति तेषाम् 'नत्थि गई' नास्ति गतिः स्वस्मात्स्थानाच्चलनम्, तथा 'न वि चारो' नापि तेषां चारः मण्डलगत्या परिभ्रमणम् । तर्हि किमित्याह-'अवढिया ते' अवस्थितास्ते 'मुणेयवा'
Loading... Page Navigation 1 ... 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738