SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिकाटीका प्रा०१९ सू १ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्या दिकम् ६७७ न दृश्यते । सूत्रे 'बावडिं बावहिं' इति प्रोक्तं तेन 'द्वाषष्टि भागसत्कान् चतुरश्चतुरो भागान इत्यर्थो बोध्यः । शास्त्रभाषया सर्वत्र 'बावटुिंबावडिं' इति लभ्यते, उक्तञ्च समवायाङ्गेऽपि "मुक्कपक्खस्स दिवसे दिवसे चंदो बावट्टि भागे परिवड्ढई" इति, व्याख्यानं तु सर्वत्र पूर्ववदेव, एतस्यैव सङ्गतत्वात्, अत्रैतादृशस्यैव भगवद्भावस्य गर्मितत्वाच्चेति ॥२६॥ तदेव सूत्रकारो व्याचष्टे - 'पण्णरसभागेण' इत्यादि, कृष्णपक्षे राहुः ‘पण्णरसभागेण य' पञ्चदशभागेन राहुविमानस्य षष्टिभागात्मकत्वेन स्वस्य विमानस्य पञ्चदशेन भागेन चतुभार्गात्मकेन 'चंदं पण्णरस मेव' चान्द्र पञ्चदशं भागमेव चन्द्रसम्बन्धिनं पञ्चदशमेव भागं चतुर्भागात्मकम् 'वरइ' वृणुतेआच्छादयति । एवं शुल्कपक्षे च 'पुणोवि' पुनरपि 'पण्णरसभागेण य' स्वकीयविमानस्य पञ्चदशेन भागेन वा 'पुणोवि' पुनरपि 'तं चेव' तमेव वर्द्धनक्रममाश्रिन्य प्रतिदिवसं पञ्चदशं भाग चतुर्भागरूपं आत्मीयेन पञ्चदशेन भागेन चतुर्भागरूपेण 'वक्कमइ' अपक्रामति-पृथग्भवति मुञ्चतीत्यर्थः । अयं भावः --कृष्णपक्षे प्रतिपदात आरभ्यात्मीयेन पञ्चदशेन भागेन चतुर्भागरूपेण प्रति दिवसमेकैकं पञ्चदशं भागं चतुर्भागरूपमुपरितनभागादारभ्याच्छादयति । एवं शुल्कपक्षे प्रतिपदात आरभ्य तेनैव क्रमेण प्रतिदिवसं चन्द्रमण्डलस्य चतुर्भागरूपं पंचदशं भागं प्रकटीकरोति तेन जगति चन्द्रमण्डलस्य वृद्धि होनिश्च प्रतिभासते किन्तु स्वरूपतः पुनश्चन्द्रमण्डलस्य न वृद्धिर्न हानिः, तत्तु यथावस्थितमेव भवति ॥२७।। अथास्यों संहारमाह 'एवं वड्ढइ चंदो' इत्यादि, ‘एवम् अनेन प्रकारेण नित्यराहुविमानेन प्रतिदिवसमनावृतरूपेण प्रकारेण 'बडूढइ चंदो' शुल्कपक्षे चन्द्रो वद्धते वर्द्धमानः प्रतिभासते । एवमेव राहुविमानेन प्रतिदिवसं क्रमेणा ऽऽवरणकरणतः कृष्णपक्षे 'परिहाणी होइ चदस्स' चन्द्रस्य परिहानिर्भवतीति भासते । 'एवणुभावेण' एवम् एतेनानुभावेन कारणेन 'चंदस्स' चन्द्रस्य पक्षः 'कालो वा जुण्होवा' कालोवा ज्योत्स्नोवा भवति एकः पक्ष कालः-कृष्णो भवति एकश्च ज्योत्स्नः ज्योत्स्नावान् शुल्क इत्यर्थः भवति ॥२८॥ अत्र मनुष्यक्षेत्रे चन्द्रादयश्चारिणः सन्ति, न तु स्थिरा इत्याह 'अंतो मणुस्स खेत्ते' इत्यादि, 'अंतो मणुस्स खेत्ते' मनुष्य क्षेत्रस्य मध्ये 'पंचविहा जोइसिया' पञ्चविधा ज्योतिष्काः के ते इत्याह 'चंदा सूरा गहगणाय' चन्द्राः सूर्या ग्रहगणाः च शब्दात् नक्षत्राणि तारकाश्च 'हवंति' भवन्ति । एते सर्वे चतुर्विधा अपि ज्योतिष्काः अत्र 'चारोवगा' चारोपकाः चारं चरन्तः 'उववन्ना' उपपन्नाः लब्धाः चारचारिणो लभ्यन्ते इति भावः ॥२९॥ मनुष्य क्षेत्रा द्वहिर्योतिष्का अवस्थिता सन्तीत्याह-'तेण परे' इत्यादि, 'तेण परं' तेन परं ततः मनुष्य क्षेत्रात् परम्-अग्रे 'जे सेसा' यानि शेषाणि-बाह्य पुष्कार‘दीनि क्षेत्राणि सन्ति तत्र 'चंदाइच्च' गहगणतारणक्खत्ता' चन्द्रादित्यग्रहगणतारकनक्षत्राणि, इत्येते सर्वे पञ्चविधा ज्योतिष्का ये सन्ति तेषाम् 'नत्थि गई' नास्ति गतिः स्वस्मात्स्थानाच्चलनम्, तथा 'न वि चारो' नापि तेषां चारः मण्डलगत्या परिभ्रमणम् । तर्हि किमित्याह-'अवढिया ते' अवस्थितास्ते 'मुणेयवा'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy