________________
चन्द्रप्राप्तिसूत्रे निष्क्रमणे सूर्यस्य प्रतिमण्डलं षष्टयधिक षट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वोपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते । चन्द्रस्य तु मण्डलेषु प्रत्येकं पौर्णमासी संभवे क्रमेण प्रतिमण्डलं षड् विंशतिः षड्विंशतिर्भागाः परिपूर्णाः सप्तविंशतितमस्य च भागस्य एकः सप्तभागः परिहीयन्ते इति ॥२२॥ साम्प्रतं तेषां तापक्षेत्रस्य संस्थानमाह-'तेसिं' इत्यादि, 'तेर्सि चंदवराणं' तेषां चन्द्रसूर्यादीनाम् 'तावक्खेत्तपहा' तापक्षेत्रपथाः तापक्षेत्रमार्गाः 'कलंबुया पुष्फसंठिया हुंति' कदम्बकपुष्पसंस्थिताः नालिका पुष्पाकाराः 'हुंति' भवन्ति' तदेव विशिनष्टि 'अंतो य संकुडा' अन्तश्च संकुचिता: 'अन्तः' इति मेरुदिशि, 'बहिं वित्थडा' बहिविस्तृताः । अस्य भावना चतुर्थे प्राभृते प्रागेव कृतेति तत्र विलोकनीयम् ॥२३॥ साम्प्रतं गौतमश्चन्द्रस्य वृद्धयपवृद्धिविषये पृच्छति-'केणं वड्ढइ चंदो' इत्यादि 'केणं' केन कारणेन हे भगवन् 'घड्ढइ चंदो' चन्द्रो वर्धते ? इत्यादि प्रश्नसूत्रगाथा स्पष्टा, तथाहि-केन कारणेन चन्द्रः शुक्लपक्षे वर्द्धते कृष्णपक्षे च तस्य हानिर्भवति ? केन प्रभावेण चन्द्रस्य एकः पक्षः काल:-कृष्णः, तथा एकः पक्षश्च 'जोण्हो' ज्योत्स्नः शुक्लः ? इति प्रश्नः ॥२४॥ भगवान स्योत्तरमाह-'किण्हं राहु विमाणं' इत्यादि इह राहुर्द्विविधः प्रोक्तः-पर्वराहुर्नित्यराहुश्च, तत्र पर्वराहुः सः यः कदाचित्पूर्णिमायां समागत्य चन्द्रविमानं निजविमानेनाऽन्तरितं करोति, अन्तरिते कृते च लोके ग्रहणमिति प्रसिद्धिः किन्तु चन्द्रो न गृह्यते । यस्तु नित्यराहुः, तस्य विमानं कृष्णं भवति तदेवाह-'कण्हं राहुविमाणं' कृष्णं राहुविमानमिति, तच्च तथाविधजगत्स्वाभाव्यात् 'निच्चं चंदेण होइ अविरहियं' नित्यं सर्वकालं चन्द्रेण सह अविरहितं विरहरहितं चरति, तच्चाविरहितं किंचन्द्रेण संयुज्य चरति ? तत्राह-नहि, तद् राहु विमानं 'चंदस्स चउरंगुलमसंपत्तं चतुर्भिरगुलैरसंप्राप्तं सत् चन्द्रविमानादाधश्चतुरङ्गुलक्षेत्रं दूरतश्चरति परिभ्रमति ॥२५॥ 'बावडिं' इत्यादि, 'बावहिं बावर्टि' द्वाषष्टिं द्वाषष्टिम् ।
अयं भावः-इह चन्द्रमण्डलं द्वाषष्टि भागात्मकं भवति, पक्षस्य दिवसाः पञ्चदशेति द्वाषष्टेः पञ्चदशभिर्भागो हियते लब्धाश्चत्वारः, शेषौ भागौ नित्यं राहुणाऽनावृतावेव तिष्ठतस्तत हौ भागौ उपरितनौ यौ पञ्चदशभिर्भागे हृते शेषी भूतौ तौ न गण्येते, तान् पञ्चदशभिर्भागहरणाल्लब्धान् चतुरश्चतुरो भागान् चन्द्रमण्डलस्य पञ्चदश भागरूपान् शुक्लप्रतिपदात आरभ्य दिवसे दिवसे राहुः प्रतिविमुञ्चति तस्मात् कारणात् 'परिवडूढइ चंदो' परिवद्धते चन्द्रः । एवं क्रमेण पञ्चदशे दिवसे पूर्णिमायां सर्वभागानामनावृतत्वाच्चन्द्रः परिपूर्णप्रकाशवान् भवति । ततः कृष्णपक्षे प्रति पदात् आरभ्य चन्द्रमण्डलस्य पूर्वक्रमेणैन चतुरश्चतुरो भागान् प्रतिदिनं राहुरावृणोति, एवं क्रमेण 'तं चेव कालेणं' तेनैव पञ्चदशदिवसात्मकेन कालेन 'चंदो खवेइ' चन्द्रः क्षीयते ततः पञ्चदशे दिवसेऽमावास्यायां अनावृतभागद्वयस्याल्पत्वात् सकलमपि चन्द्रमण्डलं कृष्णं भवत्यतो