________________
"
चन्द्रशस्तिप्रकाशिकाटीका० प्रा० १९ सू१ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६७५ जिनानाम् - अतीतानागतवर्त्तमानकालभाविनां सर्वेषां जिनानामाज्ञाऽस्तीति भावनीयमिति । यद्येवं न कुर्यात् तदा अशुभद्रव्य क्षेत्रादि सामग्री प्राप्य कदाचिद शुभवेद्यानि कर्माणि विपाकमवलम्ब्य उदयमासादयेयुः, तंदुदये च सती गृहीतव्रतेषु तद्भङ्गादि दोष प्रसङ्गः स्यात् । शुभ तिथिनक्षत्रमुहूर्त्तादिबलेन च शुभद्रव्यक्षेत्रादि सामग्रीलाभो भवेत् तेन तथाविधसामग्र्यां तु प्रायोऽशुभ कर्मविपाकस्य न संभव इति प्रव्रज्यादि ग्राहकस्य निविघ्नं सामायिकपरिपालनादि भवेत्तस्माद् अवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादौ शुभतिथिनक्षत्र मुहूर्त्तादि ग्रहणाय यतितव्य मिति गाथा भावार्थ: अत्र केचिदाशङ्कन्ते—यद्येवं तर्हि यदर्हन्तो भगवन्तः शुभतिथिनक्षत्रमुहूर्त्तादिकमनपेक्ष्यैव व्रतानि गृह्णन्ति कथं तेषां व्रतादिपालनं भवति ? तथा न च तेषां समीपे प्रव्रज्यार्थं समुपस्थितेषु ते भगवन्तो जगत्स्वामिनः शुभतिथिनक्षत्रमुहूर्त्तादि निरीक्षणं कृतवन्तः प्रत्युत कथितवन्तः 'जहासुरं देवापिया मा पडिबंधं करेह' यथासुखं देवानुप्रिय मा प्रतिबन्धं कुरु इति श्रूयते ? अत्राहते तु भगवन्तोऽर्हन्तोऽतिशयिनो भवेयुस्ततस्ते स्वातिशयबलादेव सविघ्नं निर्विघ्नं वा समधिगच्छन्ति, न ते स्व प्रव्रज्यार्थं समुपस्थितानां प्रवज्यादाने च शुभ तिथिनक्षत्रमुहूर्त्तादिक मपेक्षते तेषां तथाविधातिशयसामर्थ्यवत्त्वात् इति न तन्मार्गानुसरणं छद्मस्थानां न्याय्यम् । ये चैवं शङ्कन्ते ते परममुनिपर्युपासितवचनविडम्बका अपरिमथितजिनशासना गुरुपरम्परागतनिरवद्यविशदकालोचितसमाचारी परिपन्थिनः स्वच्छन्दमतिपरिकल्पित सामाचारीका विज्ञेयाः, तेषां यत्कथनम्'प्रवाजनादि धार्मिक शुभकार्येषु न शुभतिथिनक्षत्रमुहूर्त्तादि किमपि निरीक्षणीयम् ' यदा विरज्येत तदा प्रव्रज्येत' यदा वैराग्य समुत्यद्यते तदैव प्रव्रज्यां गृह्णीयात् इर्ति, तदसत्, मिध्यात्वविजृम्भितं च तथाविधजिनाज्ञासद्भावात् 'आणाधम्मो' इति जिनशासनस्य मौलिक नियमसद्भावाच्चेति ॥२१॥ साम्प्रतं सूर्यचन्द्राणां तापक्षेत्रमाह - ' तेसिं पविसंताणं' इत्यादि, 'तेसि' तेषां सूर्यचन्द्राणां 'पविसंताणं' प्रविशतां सर्वबाह्यमण्डलात् सर्वाभ्यन्तरमन्डले प्रवेशं कुर्वतां तदभिमुखं गच्छतामित्यर्थः 'तावक्खेत्तं तु' तापक्षेत्रं सूर्यस्य, प्रकाशक्षेत्रं च चन्द्रस्य 'निययं' नियत मायामतः प्रतिदिनं 'वड्ढए' वर्द्धते । ' तेणेव कमेण' तेनैव वर्द्धनक्रमेण 'निक्खमंताणं' निष्क्रमतां सर्वाभ्यन्तर मण्डलात् सर्वबाह्यमण्डलाभिमुखं गच्छतां पुनः 'परिहाय३' प्रतिहीयते प्रतिदिनं परि क्षीयते तापक्षेत्रं प्रकाशक्षेत्रं चाल्पमल्पं भवतीत्यर्थः । तथाहि - सर्व बाह्ये मण्डले चारं चरतां सूर्याचन्द्रमसां प्रत्येकं जम्बूद्वीपचक्रवालस्य दशधा विभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रं भवति, सूर्यस्य सर्वाभ्यन्तरमण्डलं प्रति गच्छतः प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छत प्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्द्धते, चन्द्रस्य तु मण्डलेषु प्रत्येकं पौर्णमासी संभवे । क्रमेण प्रतिमण्डलं षड्विंशतिः षड्विंशति र्भागाः परिपूर्णाः सप्तविंशतितमस्य च एकः सप्त भाग इति वर्द्धते, एवं च क्रमेण प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरे मण्डले चार चरतस्तदा प्रत्येकं जम्बू द्वीपचक्रवालस्य त्रयः परिपूर्णा दश भागास्तापक्षेत्रं भवति, ततः पुनरपि सर्वाभ्यन्तरान्मण्डलाद्बहि.