SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ ६७४ चन्द्रप्रज्ञप्तिसूत्रे णयराणं' इत्यादि, रियणियरदिणयराणं' रजनीकरदिनकराणां चन्द्रादित्यानाम्, तथा 'नक्खत्ताणं महग्गहाणं च' नक्षत्राणां महाग्रहाणं च 'चारविसेसेण' चारविशेषेण गतिमाश्रित्येत्यर्थः 'मणुस्साणं सुहदुक्खविहीभवे' मनुष्याणां सुखदुःखविधिरिह मनुष्यलोके भवेत् । तथाहि मनुष्याणां कर्माणि द्विविधानि भवन्ति यथा-शुभवेद्यानि अशुभवेद्यानि च । कर्मणां विपाकहेतवस्तु सामान्यतः पञ्च भवन्ति यथा द्रव्यं, क्षेत्रं, कालो, भावो, भवश्चेति, उक्तञ्च-. "उदयक्खय खओवसमोवसमा ज य कम्मुणो भणिया । दव्वं च खेत्तं कालं भवं भावं च संपप्प ॥१॥ उदयक्षयक्षयोपशमोपशमाः यच्च कर्मणो भणिताः । द्रव्यं च क्षेत्रं कालं भवं च भावं च सम्प्राप्य ॥१॥ इतिच्छाया । शुभकर्मणां-प्रायः शुभवेद्यानां कर्मणां शुभद्रव्यक्षेत्रकालभावभवरूपा सामग्री विपाक हेतुर्भवति, अशुभकर्मणाम् अशुभवेद्यानां कर्मणामशुभद्रव्यक्षेत्रकालभावभवरूपा सामग्री विपाकहेतुर्भवति ततो यदा येषां कृते चन्द्रादित्यादीनां चारो जन्म नक्षत्रादि विरोधी भवेत्तदो तेषांप्रायो यान्यशुभवेद्यानि कर्माणि भवन्ति तानि तां तथाविधां विपाकसामग्री संप्राप्य उदयं प्राप्नुयुः, उदयप्राप्तानि कर्माणि शरीररोगोत्पादनेन धनहानिकरणतो वा, इष्टवियोगानिष्टसंयोगजननेन वा कलहसंपादनतोऽन्यप्रकारतो वा दुखमुत्पादयन्ति । यदा च एषां चन्द्रादित्यादीनां चारो जन्मनक्षत्राद्यनुकूलः स्यात्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि उदयप्राप्तानि भवन्ति तानि तथाविधां विपाकसामग्री संप्राप्य शरीर नोरोगता संपादनतो धनादि वृद्धिकरणतो वा वैरोपशमनतः इष्ट संयोगानिष्टविप्रयोगसंपादनतो वा, प्रारब्धाभीष्टप्रयोजनसिद्धिकरणतोऽन्यप्रकारतो वा सुखं संपादयन्ति अतएव विवेकिनो जना अल्पमपि प्रयोजनं शुभतिथिनक्षत्रादि विलोक्यैव समारभन्ते न तु यथा कथञ्चन, अत एव प्रव्राजनादि कार्यमधिकृत्य परमविवेकिभिः शुभक्षेत्रे शुभां दिशमभिमुखी कृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रव्राजनव्रतारोपणादि कार्य कर्त्तव्यं नान्यथा, उक्तञ्च तद्विषयकग्रन्थे 'एसा जिणाण माणा खित्ताईयाय कम्मुणे भणिया । उदयाइ कारणं जं, तम्हा सव्वत्थ जइयव्वं ॥१॥" एषा जिनाना माज्ञा क्षेत्रादिकाश्च कर्मणो भणि ताः । उदयादि कारणं यत् , तस्मात् सर्वत्र यतितव्यम् ॥१॥ इतिछाया अस्याः संक्षेपतो व्याख्या-'एसा' इत्यादि, क्षेत्रादयोऽपि कर्मण उदयादौ कारणी भूताः 'भणिया' भणिताः कथिता जिनेश्वरैः, तस्मात् 'सव्वत्थ' सर्वत्र प्रव्राजनव्रतारोपणादौ शुभ तिथिनक्षत्रमुहूर्तावालोकने 'जइयव्वं' यतितव्यं यत्नो विधेयः 'एसा जिणाणमाणा' एषा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy