________________
चन्द्रशप्तिप्रकाशिकाटीका० प्रा०१९ सू.१ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् १७३ मणुचरंता' इत्यादि, 'ते' इति ते मनुष्यलोकवर्तिनः 'चंदा सूरागह गणाय' सर्वे चन्द्राः, सर्वे सूर्याः सर्वे ग्रहगणाश्च "अणवट्ठियजोगेहिं' अनवस्थितयोगैः यथायोगमन्यान्यैर्नक्षत्रेण सह योगै र्युक्ताः सन्तः ‘पयाहिणावत्तमंडला' प्रदक्षिणावर्त्तमण्डला प्र-प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादिग्रहाणां दक्षिणे मेरुर्भवति यस्मिन् आवर्तने मण्डलपरिभ्रमणरूपे सप्रदक्षिणाः, प्रदक्षिण आवत्तों येषां मण्डलानां तानि प्रदक्षिणावर्तानि एतादृशानि मण्डलानि येषां ते प्रदक्षिणावर्त्तमण्डलाः 'मेरुमणुचरंता' मेरुमनुलक्षीकृत्यचरन्तीति भावः । अनेनैतदुक्तं भवति सूर्यादयः समस्ता अपि मनुष्यलोकचारिणः प्रदक्षिणावर्तमण्डलगत्या परिभ्रमन्तीति न । इह चन्द्रादित्यग्रहाणां मण्डलानि अनवस्थितानि, नत्ववस्थितानि एकरूपेण न तिष्ठन्ति यथा योगमन्यस्मिन्नन्यस्मिन् मण्डले तेषां सञ्चरण शीलत्वात् अतएवोक्तम् 'अणवट्ठिय जोगेहिं चंदा सूरा गहगणाय" इति ॥१८॥ नक्षत्राणां ताराणां तु मण्डलानि अवस्थितान्येव सन्ति तदेव प्रदर्शयति-'णक्खत्ततारगाणं' इत्यादि । 'णक्खत्ततारगाणं' नक्षत्राणां तारकाणां च 'मंडला' मण्डलानि 'अवटिया' अवस्थितानि एकत्रैवस्थितानि 'मुणेयव्वा' ज्ञातव्यानि । अयं भावः नक्षत्राणां तारकाणां चैकैकं प्रत्येक मण्डलम् 'आकालमिति सकलकालाविधि' प्रतिनियतमेव भवति । अत्र अवस्थितमण्डलत्वकथने एवं न ज्ञातव्यं यदेतेषां गतिरेव न भवति, किन्तु गतिस्तु भवत्येवेत्यतः सूत्रकार आह'ते विय' इत्यादि 'ते विय' तान्यपि नक्षत्राणि तारकाणि च ‘पयाहिणाबत्तमेव मेहंअणुचरंति' चन्द्रसूर्यग्रहवदेव प्रदक्षिणावर्त्तमेव प्रदक्षिणावर्तगत्यैव मेरुमनुचरन्ति मेरुमनुलक्षीकृत्यैव परिभ्रमन्ति ॥१९॥ अथ चन्द्रादित्यानां संक्रमणं किमूर्ध्वमस्तिर्यग् वा भवतीत्या शङ्कायामाह-'रयणियरदिणयराणं' इत्यादि, 'रयणियरदिणयराणं' रजनीकरदिनकराणां चन्द्रादित्यानाम् 'उड्ढे च अहे य संकमो नत्थि' संक्रमो नोवं नाप्यधः संभवति 'तिरिए' तिर्यग् भवति । तेषाम् 'मंडलसंकमणं पुण' मण्डलसंक्रमणं पुनः 'सभितरबाहिर' साभ्यन्तरबाह्यम् अभ्यन्तरेण बाह्येन च सहितं साभ्यन्तरबाह्यम् सर्वाभ्यन्तरमण्डलात् सर्वबाह्यमण्डलम्, सर्वबाह्यान्मण्डलात्सर्वाभ्यन्तरं मण्डलं यावत् तिर्यक्त्वेन यातायातरूपं संक्रमणं भवति । अयं भावः-सर्वाभ्यन्तरमण्डलात्परतस्तावन्मण्डलेषु संक्रमणं स्यात् यावत्सर्वबाह्यमण्डलं परिपूर्ण चरितं भवेत् सर्वबाह्यमण्डलपर्यन्तं चारं चरतीत्यर्थः एवं सर्व बाह्यमण्डलादर्वाक् तावन्मण्डलेषु संक्रमणं स्यात् यावत् सर्वाभ्यन्तरं मण्डलं परिपूर्ण चरितं भवेत् । चन्द्रादित्यानां सर्वाभ्यन्तरमण्डलात्सर्बबाह्यमण्डलम्, सर्वबाह्यमण्डलात्सर्वाभ्यन्तर मण्डलमितीतस्तत एव संक्रमणं तिर्यक्त्वेन भवति तथाविधजगत्स्वाभाव्यादिति ॥२०॥ साम्प्रतं चन्द्रादित्यादीनां चारप्रभावेण मनुष्याणां सुखं दुःखं च भवतीत्याह-रयणियरदि