SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ ६७२ चन्द्रशतिसूत्रे द्वौ चन्द्रौ पूर्वभागे लवणसमुद्रे २, षड् चन्द्राः धातकोखण्डे, एकविंशतिः चन्द्राः कालोदे, षटूत्रिंशादाभ्यन्तरपुष्करार्द्धे, इत्यस्यां प्रथमायां चन्द्रपङ्क्तौ सर्व संख्यया द्वा षष्टिश्चन्द्राः | १ | एवं यो मेरोरपरभागे चन्द्रस्तत्सम्बन्धिन्या मपि द्वितीयायां चन्द्रपङ्क्तौ षट् षष्टिश्चन्द्राः पूर्वोक्तरीत्यैव ज्ञातत्र्याः २ | | | १५ | साम्प्रतं नक्षत्राणां पकी राह - 'छप्पन्नं पंतीओ' इत्यादि, इह मनुष्यलोके नक्षत्राणां षट्पञ्चाशत् पङ्क्तयः सन्ति । ताश्व - 'छाबि २, हति एक्क्का' षटू षष्ठि षट्षष्टि नक्षत्रप्रमाणा एकैका पङ्क्ति र्भवति, तथा च तद्भावना-अस्मिन् किल जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य चन्द्रस्य परिवारभूतानि अभिजिदादीनि अष्टाविंशतिर्नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति, एवमुत्तरतोऽर्द्धभागे द्वितीयस्य चन्द्रस्य परिवारभूतानि अन्यानि अष्टाविंशति नक्षत्राणि अभिजिदादीन्येव क्रमेण व्यवस्थितानि योगं युञ्जन्ति । तत्र दक्षिणतोऽर्द्धभागे यद् अभिजिन्नक्षत्रं वर्त्तते तत्सम श्रेणि व्यवस्थिते द्वे अभिजिन्नक्षत्रे लवणसमुद्रे २ पड् धातकी खण्डे, ६ एकविंशतिः कालोदे २१, षटू त्रिंशादाभ्यन्तरपुष्करार्द्धे ३६ इति सर्वसंख्यया षटू षष्टिरभिजिन्नक्षत्राणि पङ्क्त्या व्यवस्थितानि योगं युञ्जन्ति । एवं श्रवणादीन्यपि दक्षिणतोऽर्द्धभागे पङ्क्तया व्यवस्थितानि षटू षष्टि संख्यकानि स्वयं भावनीयानि । उत्तरतोऽप्यर्द्धभागे यदभिजिन्नक्षत्र वर्त्तते तत्समश्रेणिव्यवस्थिते उत्तरभागे एव द्वे अभिजिन्नक्षत्रे लवणसमुद्रे षड् धातकीखण्डे६, एक विंशतिः कालोदे२१, षटूत्रिंशत् आभ्यन्तरपुष्करार्द्धे ३६१ एवं षट्षष्टिसंख्यकानि अभिजिन्नक्षत्राणि ज्ञातव्यानि । एवं श्रवणादि पङ्क्तयोऽपि प्रत्येकं षट्षष्टि संख्यका अवसेया इति सर्वसंख्यया षट् पञ्चाशत् पङ्क्तयो नक्षत्राणां भवन्ति, एकैका च पङ्क्तिः षट्षष्टि संख्येति ॥१६॥ साम्प्रतं ग्रहाणां पङ्क्तीराह - 'छावत्तरं गहाणं' इत्यादि, इह मनुष्यलोके ग्रहाणामङ्गारकादीनां सर्व संख्यया षट् सप्तत्यधिकशतसंख्यकाः १६७ पङ्क्तयो भवन्ति । are 'एकिक्किया पंती' एकैका पङ्क्तिः 'छावट्ठि २' षट् षष्टि-षट् षष्टि संख्याका भवति । भावना चेत्थम्-इह जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य चन्द्रस्य परिवारभूता अङ्गारकादयोऽष्टाशीतिर्ग्रहाः सन्ति १ । उत्तरतोऽर्द्धभागे द्वितीयस्य चन्द्रस्य परिवारभूता अङ्गारकादयोऽष्टाशीतिरेव तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारको ग्रहश्चारं चरन् वर्त्तते तत्सम श्रेणिव्यवस्थितो दक्षिणभागे एव द्वावङ्गारकौ लवणसमुद्रे २, षड् धातकी खण्डे६, एकविंशतिरङ्गारकाः कालोदे २१, षट् त्रिंशदाभ्यन्तरपुष्करार्द्धे ३६ इति षट्षष्टिः एवं शेषा अपि सप्ताशीतिर्ग्रहाः T: पङ्क्त्या व्यवस्थिताः प्रत्येकं षट्षष्टि रङ्गारका वसेया । एवमुत्तरतोऽप्यर्द्ध अङ्गारकादीनामष्टाशीतेर्ब्रहाणां पङ्कयः प्रत्येकं षट्षष्टिसंख्याकाः परिभावनीया इति जायते सर्व संख्यया ग्रहाणां षट्सप्तत्यधिकं पङ्क्ति शतम् (१७६) एकैका च पङ्क्ति षट् षष्टि संख्याति ॥१७॥ एते चन्द्रादयः ग्रहाः कुत्र चारं चरन्तीत्याह - 'ते मेरु भागे ,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy