SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका० प्रा०१९ सूर चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६७१ एवं धातको षण्डे षट् पिटकानि, तत्र द्वादश द्वादश चन्द्रसूर्याणां सद्भावात् ।६।। एकविंशतिः पिटकानि कालोंदे समुद्रे, तत्र द्विचत्वारिंशद् द्विचत्वारिंशच्चन्द्रसूर्याणां सद्भावात् ।२१। षटू त्रिंशत् पिटकानि आभ्यन्तरपुष्कराड़े, तत्र द्वासप्ततेः द्वासाततेः चन्द्रसूर्याणां सद्भावात् ।३६। एवम् –(१=२=६=२१=३६८६६) सर्वसंकलनया चन्द्रादित्यानां षट्षष्टिः पिटकानीति मनुष्यक्षेत्रे द्वात्रिंशदधिकं शतमेकम् (१३२) प्रत्येकं चन्द्रसूर्याणां संख्या समायाति एकैकस्य द्विपिटकस्य द्वि चन्द्रसूर्यात्मकत्वादिति ॥१२॥ साम्प्रतं नक्षत्राणां पिटकान्याह-'छावटि पिडगाई णक्खत्ताणं' इत्यादि, नक्षत्राणामपि षट्षष्टिरेव पिटकानि सर्वसंख्यया मनुष्यलोके सन्ति, किन्तु अत्र नक्षत्रसम्बन्धीनि ‘एक्केक्कए पिडए' एकैकस्मिन् पिटके 'छप्पण्णं नक्खत्ता हुंति' षटू पञ्चाशत् षटू पञ्चाशन्नक्षत्राणि भवन्ति । किमुक्तं भवति !-षट् पञ्चाशत्संख्यात्मकमेकैकं नक्षत्रपिटकमिति षट्षष्टि भावना चेत्थम् जम्बूद्वीपे एकम् ।१। लवणसमुद्रे द्वे ।२। धातकीषण्डे षट् ।६। कालोदे एकविंशतिः ।२१। आभ्यन्तर पुष्करार्द्ध षटूत्रिंशत् ॥३६। (१=२=६=२१=३६+६६) एवं पूर्ववदेवात्रापि षट्षष्टिः पिटकानि भवन्ति, अतएव सर्वस्मिन् मनुष्यक्षेत्रे त्रीणि सहस्राणि षण्णवत्यधिक षटूशतोत्तराणि (३६९६) नक्षत्राणां भवन्ति षट्पष्टेः षटू पञ्चाशता गुणनादेतावत्प्रमाणलाभात् ॥१३॥ अथ महाग्रहाणां पिटकानि प्रदर्शयति-'छावटि पिडगाइं महागहाणं' इत्यादि, महाग्रहाणामपि मनुष्यक्षेत्रे षट्षष्टिरेव पिटकानि सन्ति, अत्रैकस्मिन् पिटके 'छावत्तरं गहसयं' षटूसप्तत्यधिकमेकं शतं महाग्रहाणां वर्तते । पिटकानां षट्षष्टि संख्या भावना पूर्ववदेव कर्तव्या । अत्र ग्रहा अष्टाशीतिर्भवन्ति ततो द्वयोश्चन्द्रयो षटू सप्तत्यधिकं शतं ग्रहाणां परिवारो जायते ततः षट् षष्टिः षटू सप्तत्यधिकशतेन गुण्यते जायन्ते सर्वस्मिन् मनुष्यक्षेत्रे एकादश सहस्राणि षट् शतानि षोडशाधिकानि (११६१६) महाग्रहाणामिति ॥१४॥ साम्प्रतं चन्द्रादित्यानां पङ्क्तिः प्रदर्शयति-'चत्तारि य पंतीओ' इत्यादि, इह मनुष्य क्षेत्रे चन्द्रादित्यानां ‘चत्तारि य पंतीओ' चतस्रः पङ्क्तयो भवन्ति यथा-द्वे पङ्क्ती चन्द्राणां, द्वे च सूर्याणाम् एकैका च पङ्क्तिः 'छावर्हि छावहि' इति षट्षष्टि सूर्यादिसंख्यात्मका भवति, कथमिति तद्भावना चेत्थम्-एकः किल सूर्यो जम्बू द्वीपे मेरौ दक्षिणभागे चारं चरन् वर्त्तते, एक उत्तर भागे, एवमेकश्चन्द्रो मेरोः पूर्वभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चारं चरन् वर्तते तत्समश्रेणिस्थितौ द्वौ सूर्यो दक्षिणभागे लवणसमुद्रे २, षड् धातको षण्डे ६, एकविंशतिः कालोदे २१, षत्रिंशद् आभ्यन्तरपुष्कराः वर्तते । अस्यापि समश्रेणिव्यवस्थितौ द्वौ सू? उत्तरभागे लवणसमुद्रे २, धातकीखण्डे षड् ६, कालोदे एकविंशतिः २१, आभ्यन्तरपुष्कराः षट्त्रिंशत्, ३६, इत्यस्यामपि द्वितीयायां पङ्क्तौ सर्वसंख्यया षट्षष्टिः सूर्या जाताः ।२। तथा यो मेरोः पूर्वभागे चन्द्रश्चारं चरन् वर्तते तत् समश्रेणिव्यवस्थितौ
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy