________________
६७०
' चन्द्रप्राप्तिसूत्रे
सूत्रोक्तवदेवेति । अथ सकलमनुष्यलोकस्थित तारागणस्यैवोपसंहारमाह-एसो' इत्यादि, एषःअनन्तरमनुपदगाथोक्तसंख्यकः 'तारापिंडो' तारापिण्डः ताराणां सर्वाग्ररूपः 'सव्व समासेण' सर्वसंख्यया 'मणुयलोयंमि' मनुजलोके वर्तते । बिहिया पुण' बहिः पुनर्मनुष्यलोकाहिस्तात् मनुष्यलोकाहि गे मानुषोत्तर पर्वतादनन्तरक्षेत्रे इत्यर्थः 'ताराओ' ताराः :असंखेज्जाओ' असंख्येयाः 'जिणेहिं' जिनैः अतीतवर्तमानकालतीर्थक रैः ‘भणिया' भणिताः कथिताः द्वोप समुद्राणामसंख्यातत्वात् प्रतिद्वीपसमुद्रं यथा-योगं संख्येयानामसंख्येयानां च ताराणां सद्भावात् ॥९॥ साम्प्रतं मनुष्यलोकगतज्यौतिश्चक्रस्य संस्थानमाह-'एवइयं' इत्यादि, ‘एवइयं एतावत्कं यदन्तरभणितमेतावत्संख्यकम् 'तारग्गं' ताराग्रं तारा परिमाणं 'माणुसम्मि लोयम्मि' मनुष्ये लोके 'जोइसं' जोतिष ज्योतिश्चक्रं चन्द्रसूर्यनक्षत्रग्रहगणतारारूपात्मकं ज्योतिष्कदेव विमानरूपं तत् 'कलंबुया पुप्फसंठियं' कदम्बपुष्पसंस्थितं कदम्बपुष्पवत् अधः सङ्कुचितमुपरि विस्तृतम्-उत्तानोकृतार्द्धकपित्थसंस्थानसंस्थितमित्यर्थः 'चारं चरई' चारं चरति परिभ्रमति तथाविधलोकस्वभावात् । गाथायां ताराग्रहणं चोपलक्षणं तेन चन्द्रसूर्यादयाऽपि यथोक्त संख्यका मनुष्यलोके तथाविधलोकस्वाभाव्याच्चारं चरन्तीति द्रष्टव्यम् ॥१० साम्प्रत मेतद्गतमेवोपसंहारमाह-रवि ससि' इत्यादि, 'रविससिगहणक्खत्ता' रविशशिग्रहनक्षत्राणि उपलक्षणात्तारकाणि च 'एवइया' एतावत्कानि 'मणुयलोए' मनुजलोके 'आहिया' आख्यातानि कथितानि सर्वज्ञैः । 'जेसि' येषां चन्द्रसूर्यादीनां मनुष्यलोकचारिणां यथोक्त संख्यकानां चन्द्रसूर्यनक्षत्रग्रहगणतारारूपाणां प्रत्येकम् 'नामगोय' नाम गोत्राणि, इहान्वर्थयुक्तं नामसिद्धान्त परिभाषया नामगोत्रमित्युच्यते, ततोऽयमर्थः नामगोत्राणि अन्वर्थ युक्तानि नामानि, अथवा नामानि च गोत्राणि चेति नामगोत्राणि 'पागया' प्राकृताः सामान्यानतिशयिनः पुरुषाः कदाचिदपि 'न पण्णवेहिति' न प्रज्ञापयिष्यन्ति भविष्यति काले, किन्तु यदा तदापि प्रज्ञापयिध्यन्ति चेत् सर्वज्ञा एव प्रज्ञापयिष्यन्ति नेतरे, तस्मात्कारणात् इदं चन्द्रसूर्यादिसंख्यापरिमाणं प्राकृत पुरुषाऽगम्यं सर्वज्ञोपदिष्टं वर्तते, इति सम्यक् श्रद्धेयमेवेति ॥११॥ साम्प्रतं चन्द्रसूर्यनक्षत्रग्रहाणां पिटकानि पङ्क्तिश्च प्रदर्शयति यद्तसंख्या ज्ञानेन मनुष्यलोकगतचन्द्रादीनां संख्याज्ञानं भवतिषट्षष्टिः पिटकानि 'चंदाइच्चाणमणुयलोयम्मि' मनुष्यलोके चन्द्रादित्यानां सन्ति, अत्र द्विचन्द्रद्विसूर्यात्मकं पिटकं भवति, इत्थम्भूतानि च चन्द्रादित्यानां सर्वसंख्यया मनुष्यलोके षट्षष्टिः पिटकानि वर्तन्ते, अतः षट् षष्टे भ्यां गुणने लभ्यते द्वात्रिंशदधिकमेकं शतम् (१३२) प्रत्येकं चन्द्रसूर्याणां संख्यानामस्मिन् मनुष्यक्षेत्रे । तदेव स्पष्टयति - 'दो चंदा दो सूरा' इति एकैकस्मिन् पिटके द्वौ चन्द्रौ द्वो सूर्यो भवतः ततः किमित्याह-द्वौ चन्द्रौ द्वौ सूर्यो इत्येतावत्प्रमाणकमेकैकं पिटकं चन्द्रादित्यानामिति, एवं प्रमाणकं च पिटकं जम्बूद्वीपे एकम्, अत्र द्वयोरेव चन्द्रसोईयोरेव च सूर्ययोः सद्भावात् । १। द्वे पिटके लवणसमुद्रे तत्र चतुर्णा चन्द्रसूर्याणां सद्भावात् ।२।