SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ चन्द्रक्षप्तिप्रकाशिकाटीका० प्रा०१९ सू.१ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६६९ -'जाव' इत्यादि, यावत् 'एग ससी परिवारो तारा गण कोडी कोडीणं' एक शशिपरिवारः तारागण कोटी कोटीनाम् , इत्येतत्पर्यन्तं चत्वारिंशत्तम गाथावधिकं पठनीयमिति । अस्य-आयामविष्कम्भप्रश्नः सूत्रे एव आगतः, परिक्षेप प्रश्नादारभ्य जीवाभिगमोक्तः पाठः प्रदर्श्यते-'केवईए परिक्खेवेणं' इत्यादि, 'केवइए परिक्खेवेणं आहिए' कियत्कं परिक्षेपेण आख्यातम् ! 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! एवं गौतमेन पृष्टे भगवानाह 'ता पणयालीसं' इत्यादि, इदं मनुष्यक्षेत्रं पञ्चचत्वारिंशल्लक्षयोजनपरिमित मायामविष्कम्भेण (४५०००००) आख्यातम् , तथा परिधिमाह-'एगा जोयण कोडी' इत्यादि, एका योजन कोटी, द्वि चत्वारिंशल्लक्षाणि ऐकोन पञ्चाशदधिके योजनशते-(१४२००२४९) एतावत्परिमितं मनुष्यक्षेत्रं परिक्षेपेण आख्यातमिति । अस्यायामविष्कम्भपरिमाणं पञ्च चत्वारिंशल्लक्षाणि यथा एकं लक्षं जम्बूद्वीपे ? ततो लवण समुद्रे पूर्वापरतो द्वे द्वे लक्षे इति चत्वारि लक्षाणि, धातकी षण्डे एकतोऽपरतश्च चत्वारि चत्वारि लक्षाणीति अष्टौ लक्षाणि, कालोंदसमुद्रे एकतोऽपरतश्च अष्टौ अष्टौ लक्षाणीति षोडश लक्षाणि, आभ्यन्तर पुष्करा दे॒ऽपि एकतोऽपरतश्च अष्टौ अष्टौ लक्षाणीति षोडश लक्षाणि (१.४-८१६-१६४५) इति सर्वसंख्या संमेलनेन जायन्ते पञ्चचत्वारिंशल्लक्षाणि (४५०००००) । परिधिगणितभावना तु-'विक्खभवग्गह गुण;' इत्यादि करणवशात् स्वयं कर्त्तव्या । अथ चन्द्रादिविषये गौतमः पृच्छति–ता मणुस्सखेत्तण' इत्यादि 'ता' तावत् ‘मणुस्स खेत्तेणं' मनुष्यक्षेत्रे खलु 'केवइया चंदा पभासिसुवा ३ 'कियन्तश्चन्द्राः प्रभासयन् वा ३, 'पृच्छा तहेव' पृच्छा तथैव तथाहि कियन्तः सूर्या अतापयन् वा ३ कियन्ति नक्षत्राणि योगमयुजन् वा ३ कियन्तो महाग्रहाश्चारमचरन् वा, कियत्यस्तारा शोभामशोभन्तवा ३ ? इति प्रश्न; भगवानाह 'ता बत्तीसं चंदसयं' इत्यादि, तावत् द्वात्रिंशदधिकशत संख्यकाश्चन्द्राः प्राभासयन् वा ३ द्वा त्रिशंदधिकशतसंख्यका एव सूर्या अतापयन् वा ३, । नक्षत्राणि-'तिण्णि सहस्सा' इति षण्णवत्यधिक षट्शतोत्तरसहस्रत्रय (३६९६) संख्यकानि योगमयुजन् वा ३ । महाग्रहाः-'एक्कारस सहस्सा' इति-षोडशोत्तर षट्शताधिकैकादशसहस्र (११६१६) संख्यका श्चारमचरन् वा ३, तारापरिमाणमाह-'अट्ठासीई' इत्यादि, अष्टाशीतिः लक्षाणि चत्वारिंशच्च सहस्राणि सप्त च शतानि (८८४०७००) तारागण कोटोकोट्यः शोभामशोभन्त वा ३,। नक्षत्रादीनां संख्या भावना-नक्षत्रगृहताराणां स्वस्व परिवारसंख्याया अत्रत्य चन्द्रसंख्यया द्वात्रिंशदधिकशत (१३२ ) रूपया गुणने नक्षत्रादीनां संख्या समायातीति स्वयं करणीयम् । अत्र आभ्यन्तरपुष्करार्द्धमनुष्यक्षेत्रयोरेतयोयोरपि आयामविष्कम्भ-परिधिप्रमाण-चन्द्रादिसंख्या प्रतिपादिकाः 'अटेव सयसहस्सा' इति गाथात आरभ्य 'सत्त य सया अण्णा तारागण कोडिकोडीणं' इति पर्यन्तमष्टौ गाथाः सन्ति, आसामर्थः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy