SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे अथ पुष्करवरस्य विभागद्वयं प्रदर्शयति 'ता पुक्खरवरस्स णं' इत्यादि । 'ता, तावत् 'पुक्खरवरस्स णं दीवस्स' पुष्करवरस्य पूर्वप्रदर्शितस्वरूपस्य खलु द्वीपस्य 'बहुमज्झदेसभाए' बहुमध्यदेशभागे बहुमध्यः अत्यन्त मध्यो यो देशः क्षेत्रं तस्य भामे तत्स्थाने 'माणुसोत्तरे णामं पव्वए' मानुषोत्तरो नाम पर्वतः, किं संस्थानकः ? इत्यत्राह--'वलयागारसंठाण संठिए' वलयवदन्तः शुषिरो बहिगोलाकारः, एतादृशं संस्थानम् आकृतिर्यस्य स तादृशो वर्त्तते, ततः किम् ? 'जे गं' इत्यादि यः खलु मानुषोत्तरपर्वतः 'पुक्खरवरं दीवं' पुष्करवरं द्वीपम् 'दुहा विभयमाणे २ चिट्ठई' द्विधा विभजमानः विभजमान स्तिष्ठति स्थितोऽस्ति, 'तं जहा' तद्यथा'अभितरपुक्खरद्धं च बाहिरपुक्खरद्धं च' आभ्यन्तरपुष्करा, च बाह्य पुष्कराई च मानुषोत्तरपर्वतमाश्रित्य पुष्करवरद्वीपस्य द्वौ विभागौ आभ्यन्तरबाह्यरूपौ जातौ मानुषोत्तरपर्वता दर्वाक् यत् पुष्कराई तद् आभ्यन्तरपुष्करार्द्धम्, यन्मानुषोत्तरपर्वतात्परतस्तद् बाह्य पुष्करार्द्धम् , इति भावः । तत्र आभ्यन्तरपुष्करार्द्धस्य संस्थानादिविषये श्रीगौतमः पृच्छति'ता अभितरपुक्खरण' इत्यादि, हे भगवान् ? आभ्यन्तरपुष्कराईद्वीपः किं समचक्रवालसंस्थानसंस्थितः विषमचक्रवालसंस्थानसंस्थितो वर्तते ? श्रीभगवानाह-'ता समचक्कवालसंठाणसंठिए' इत्यादि, तावत् स. समचक्रवालसंस्थानसंस्थितोऽस्ति न तु विषमचक्रवालसंस्थानसंस्थितः । सम्प्रति विष्कम्भपरिधिविषये गौतमस्य प्रश्नः-'ता अभितरपुक्खरद्धेणं' इत्यादि प्रश्नसूत्रं सुगमम् भगवानाह-'ता अट्ट जोयणसयसहस्साई' इत्यादि, तावत् आभ्यन्तरपुष्कराद्धेमष्ट लक्ष योजनपरिमितं. चक्रवालविष्कम्भेण तथा 'एगा जोयणकोडी' इत्यादि, एका योजनकोटी, द्वि चत्वारिंशच्च लक्षाणि, त्रिंशच्च सहस्राणि, एकोनपञ्चाशदधिके द्वे योजनशते (१४२,३०,२४०), एतावत्परिमितं परिक्षेपेण परिधिना वर्तते । अथ तद्गतचन्द्रादि विषये पृच्छा सुगमा । भगबानाह-'ता बावत्तरि चंदा' इत्यादि, आभ्यन्तरपुष्कराद्धे द्वा सप्ततिश्चन्द्राः प्राभासयन् वा ३, द्वा सप्ततिरेव सूर्या अतापयन् वा ३, षोडशाधिक द्वि सहस्रसंख्यकानि (२०१६) नक्षत्राणि योगमयुञ्जन् वा ३, महाग्रहा षट् सहस्राणि षदत्रिंशदधिकानि त्रीणि शतानि च (६३३६) चारमचरन् वा, तथा-ताराश्च कोटी कोटीनामष्ट चत्वारिंशल्लक्षाणि, द्वाविंशतिः सहस्राणि, द्वे शते च (४८२२२००) एतावत्यः शोभामशोभन्त वा ३, अथ मनुष्यक्षेत्रस्य विष्कम्भादि विषये पृच्छति-- 'ता मणुस्सखेत्तेणं' इत्यादि 'ता' तावत् मनुष्यक्षेत्रं खलु अस्य समयक्षेत्रमित्यपि नाम, अत्राहोरात्रादि समयसद्भावात् , 'केवई आयामविक्खंभेणं' कियत्परिमितमायामविष्कम्भेण अत्र जीवाभिगमस्यातिदेशमाह-'एच' इत्यादि, एवं जीवाभिगमोक्त वदेवात्र-'विक्खंभो परिरओ, जोइसं ताराओ' विष्कम्भः विष्कम्भपरिमाणं, परिरयः परिधिपरिमाणं, ज्यौतियं ज्यौतिश्चक्रं चन्द्रसूर्यनक्षत्रग्रहगण रूपं, ताराश्चेति सर्वमत्र पठनीयम्, कियत्पर्यन्तं तारापाठः ? इत्याह
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy