SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिकाटीका प्रा०१९ सू १ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६६७ कारसंस्थानसंस्थितः सर्वतः समन्तात् परिक्षिप्य परिवेष्टय तिष्ठति । अथ पुष्करवरस्य संस्थानविषये पृच्छा-'ता पुक्खरवरेणं दोवे' इत्यादि, सुगमम् । भगवानाह-'ता समचक्कबालसंठाण साठए' इत्यादि, स पुष्करवरद्वीपः समचक्रवालसंस्थानसंस्थितः, न तु विषमचक्रवालसंस्थान संस्थितः इत्युत्तरम् । 'एवं विक्खभो परिक्खेवो जोइसं जहा जीवाभिगमे जाव ताराओ' इति पुष्करवरद्वीपस्य विष्कम्भादिकं तारापर्यन्तं सर्वं जीवाभिगमोक्तवदेव विज्ञेय मितिभावः । तथाहि तत्पाठः 'ता पुक्खरवरेणं' इत्यादि, संस्थानविषयकः प्रश्नः सुगमः । भगवानाह-'ता सोलस' इत्यादि, अस्य समचक्रबालविष्कम्भः षोडश लक्षयोजनपरिमितो वर्तते, 'एगा जोयणकोडी' इत्यादि, असौ एका योजनकोटी, द्विनवतिर्लक्षाणि, एकोनपश्चाशत् सहस्राणि, चतुर्नवत्यधिकानि अष्ट योजनशतानि च-(१९२४९८९४) परिक्षेपेण आख्यातः । 'ति वएज्जा' इति वदेतू स्वशिष्येभ्यः । अथ चन्द्रादीनां विषये गौतमः पृच्छति 'ता पुक्खरवरेणं दीवे' 'ता' तावत् पुष्करवरे खलु द्वीपे कियन्तश्चन्द्राः प्राभासयन् वा ३, 'पुच्छा तहेव' पृच्छा तथैव पूर्ववदेव । भगवानाह- 'ता चोयाल चंदसयं' चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिंशदधिकशतसंख्यकाः (१४४) चन्द्राः प्राभासयन् वा ३, एतावन्त एव (१४४) सूर्या अतापयन् वा ३, । 'चत्तारि सहस्साई चत्वारि सहस्राणि 'बत्तीसं च' द्वात्रिंशच्च द्वात्रिंशदधिकानि चत्वारि सहस्राणि(४०३२) नक्षत्राणि योगमयुजन् वा । 'बारस' इत्यादि, द्वादशसहस्राणि द्वात्रिंशदधिकानि षड् महानहशतानि (१२६३२) चारमचरन् वा ३, । 'छण्णउई' इत्यादि, षण्णवतिर्लक्षाणि, चतुश्चत्वारिंशत् सहस्राणि चत्वारि च शतानि (९६४४४००) तारागणकोटीकोट्यः शोभामशोभन्त वा ३। पुष्करवरद्वीपस्य परिधेर्गणितभावना त्वियम्-पुष्करवरद्वीपस्य पूर्वापरतः षोडश षोडश लक्षाणीति जातानि द्वात्रिंशत् लक्षाणि (३२) कालोदधेः पूर्वापरतोऽष्टावष्टौ इति षोडशलक्षाणि १६, धातकी षण्डस्य पूर्वापरतश्चत्वारि चत्वारि लक्षाणीति जायन्तेऽष्टौ लक्षाणि ८, लवणसमुद्रस्य पूर्वापरतो द्वे द्वे लक्षे इति चत्वारि लक्षाणि ४, जम्बूद्वीपस्य चैकं लक्षम्-(३२-१६=८=४=१+६१) एवं सर्वसंकलनया जातानि-एक षष्टिर्लक्षाणि (६१०००००) एतस्य राशेवर्गे कृते जातानि त्रिकः, सप्तकः, द्विकः, एककः, तदुपरि च दश शून्यानि (३७२१००००००००००), अस्य राशेदशभिर्गुणने जातानि पूर्वोक्ताङ्कोपरि एकादश शून्यानि (३७२१०००००००००००) एतेषां वर्गमूलानयने लभ्यते यथोक्तं परिधिपरिमाणम् (१९२४९८९४) इति । नक्षत्रादिपरिमाणं च एकस्य चन्द्रस्य यावान् नक्षत्रपरिवारः यावान् ग्रहपरिवारः यावांश्च तारापरिवारः स स्व स्व परिवारोऽत्रत्यचन्द्रसूर्यसंख्यया चतुश्चत्वारिंशदधिकशत (१४४) रूपया गुण्यते ततः समायाति नक्षत्रादीनां स्व स्व परिवारसंख्येति स्वयं करणीयमिति । अत्र परिधि चन्द्रसूर्यादि परिमाणप्रतिपादिकाश्चतस्रो गाथाः, सन्ति, तासां व्याख्या पूर्व सूत्रोक्तानुसारेण स्वयमूहनीयेति (जीवाभिगमपाठ व्याख्या)
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy