SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ ६६६ चन्द्रप्रज्ञप्तिसूत्रे पृच्छा । भगवानाह--'ता धायईसंडेणं' इत्यादि तावद् धातकी षण्डो द्वीपः समचक्रवालसंस्थानसंस्थितः, नो विषमचक्रवालसंस्थानसंस्थितः । ' एवं विक्खभो परिक्खेवो' जोइसंच' अनेन प्रकारेण कालोदसमुद्रस्य विष्कम्भः, परिक्षेपः, ज्यौतिषंच 'जहा जीवाभिगमे ता भाणियव्वं' यथा जीवाभिगमे प्रोक्तं तथा भणितव्यम् । कियत्पर्यन्तमित्याह 'जाव' इत्यादि, 'जाव ताराओ' यावत् ताराः, तारा प्रमाणपर्यन्तं पठितव्यम् तथाहि तत्पाठः 'ता कालोएणं' इत्यादि 'ता' तावत् 'कालोएणं समुद्दे' कोलोदः खलु समुद्रः कियान् चक्रवालविष्कम्भेण कियान् परिक्षेपेण आख्यातः ? इति प्रश्नः । भगवानाह - ' ता कालोएणं' इत्यादि 'ता' तावत् 'कालोएणं समुद्दे' कालोदः खलु समुद्रः अष्टलक्षयोजनपरिमितश्चक्रवालविष्कम्भेण प्रज्ञप्तः । अस्य परिक्षेपः - एकनवतिर्लक्षाणि, सप्ततिः सहस्राणि, पञ्चोत्तराणि षट् शतानि च (९१७०६०५) योजनानाम्, एतावत्परिमितः किञ्चिद्विशेषाधिकः प्रोक्तः । अथ चन्द्रादिविषये प्रश्नः - ' ता कालोएणं समुद्दे केवइया चंदा' इत्यादि पृच्छा । भगवानाह - 'ता कालोएणं' इत्यादि, ' ता तावत् 'कालोएणं समुद्दे' कालोदे स्खलु समुद्रे 'बायालीस चंदा' द्वाचत्वारिंशत् चन्द्राः प्राभासयन् वा ३, द्वाचत्वारिंशत् सूर्या अतापयन् वा ३, द्वासप्तत्यधिकानि एकादश नक्षत्रशतानि (१९७२) योगमयुञ्जन् वा ३, त्रीणि सहस्राणि षण्णवत्यधिकानि षट् शतानि ( ३६९६ ) महाग्रहाणां चारमचरन् वा ३, अष्टाविंशतिशत सहस्राणि लक्षाणि, द्वादश सहस्राणि पञ्चाशद धिकानि नवशतानि (२८१२९५०) कोटी कोट्यस्ताराः शोभामशोभन्त वा ३ । शोभन्ते वा शोभिष्यन्ते वा ॥ परिक्षेपस्य गणितभावना यथा कालोदसमुद्रस्य एकतोऽपरतश्चेति द्वयोः प्रत्येकमष्टावष्टौ योजन लक्षाणीति जायन्ते षोडश लक्षाणि, धातकीषण्डस्य उभयतश्चत्वारि लक्षाणि मिलित्वाऽष्टौ लक्षाणि, एवं लवणसमुद्रस्य उभयतो द्वि द्विलक्षसद्भावाच्चत्वारि लक्षाणि, तथा जम्बूद्वीपस्य एकं लक्षम् (१६=८=४=१1 ) इति मिलित्वा सर्वसंख्यया एकोनत्रिंशल्लक्षाणि (२९०००००) जातानि, एतेषां वर्गे कृते जायन्ते अष्टकः, चतुष्कः, एककः, तदुपरि दशशून्यानि (८४१००० ०००००००) ततो दशभिर्गुणने पूर्वोक्ताङ्कोपरि जायन्ते एकादश शून्यानि (८४१०००००० ०००००) एषां वर्गमूलानयने लब्धं यथोक्तम् – (९१७०६०५) शेषं-त्रिको नवकस्त्रिकस्त्रको नवकः सप्तकः पञ्चकः (३९३३९७५) इति यदवतिष्ठते तदपेक्षया विशेषाधिकत्वमुक्तम् । नक्षत्रादीनां भावना तु नक्षत्रग्रहताराणां स्व स्व संख्यायाश्चन्द्रसूर्याणां द्वाचत्वारिंशत्त्वेन द्वाचत्वारिंशता गुण स्वस्व संख्या समागमिष्यतीति स्वयं परिभावनीयम् । अत्र पूर्वोक्तसंख्याप्रतिपादिकाश्चतस्त्रो गाथाः सन्ति, ताः सुगमाः । इति जीवाभिगमपाठव्याख्या । कालोदः समुद्रः केन वेष्टित ? इत्यत्राह - 'ता कालोयं णं' इत्यादि, 'ता' तावत् 'कालोयं णं समुद्द' कालोदं खलु समुद्रम् ' पुक्खरवरे गामं दीवे' पुष्करवरो नाम द्वीपो वृत्तो वलया
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy