Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
६७४
चन्द्रप्रज्ञप्तिसूत्रे णयराणं' इत्यादि, रियणियरदिणयराणं' रजनीकरदिनकराणां चन्द्रादित्यानाम्, तथा 'नक्खत्ताणं महग्गहाणं च' नक्षत्राणां महाग्रहाणं च 'चारविसेसेण' चारविशेषेण गतिमाश्रित्येत्यर्थः 'मणुस्साणं सुहदुक्खविहीभवे' मनुष्याणां सुखदुःखविधिरिह मनुष्यलोके भवेत् । तथाहि मनुष्याणां कर्माणि द्विविधानि भवन्ति यथा-शुभवेद्यानि अशुभवेद्यानि च । कर्मणां विपाकहेतवस्तु सामान्यतः पञ्च भवन्ति यथा द्रव्यं, क्षेत्रं, कालो, भावो, भवश्चेति, उक्तञ्च-. "उदयक्खय खओवसमोवसमा ज य कम्मुणो भणिया ।
दव्वं च खेत्तं कालं भवं भावं च संपप्प ॥१॥ उदयक्षयक्षयोपशमोपशमाः यच्च कर्मणो भणिताः ।
द्रव्यं च क्षेत्रं कालं भवं च भावं च सम्प्राप्य ॥१॥ इतिच्छाया । शुभकर्मणां-प्रायः शुभवेद्यानां कर्मणां शुभद्रव्यक्षेत्रकालभावभवरूपा सामग्री विपाक हेतुर्भवति, अशुभकर्मणाम् अशुभवेद्यानां कर्मणामशुभद्रव्यक्षेत्रकालभावभवरूपा सामग्री विपाकहेतुर्भवति ततो यदा येषां कृते चन्द्रादित्यादीनां चारो जन्म नक्षत्रादि विरोधी भवेत्तदो तेषांप्रायो यान्यशुभवेद्यानि कर्माणि भवन्ति तानि तां तथाविधां विपाकसामग्री संप्राप्य उदयं प्राप्नुयुः, उदयप्राप्तानि कर्माणि शरीररोगोत्पादनेन धनहानिकरणतो वा, इष्टवियोगानिष्टसंयोगजननेन वा कलहसंपादनतोऽन्यप्रकारतो वा दुखमुत्पादयन्ति । यदा च एषां चन्द्रादित्यादीनां चारो जन्मनक्षत्राद्यनुकूलः स्यात्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि उदयप्राप्तानि भवन्ति तानि तथाविधां विपाकसामग्री संप्राप्य शरीर नोरोगता संपादनतो धनादि वृद्धिकरणतो वा वैरोपशमनतः इष्ट संयोगानिष्टविप्रयोगसंपादनतो वा, प्रारब्धाभीष्टप्रयोजनसिद्धिकरणतोऽन्यप्रकारतो वा सुखं संपादयन्ति अतएव विवेकिनो जना अल्पमपि प्रयोजनं शुभतिथिनक्षत्रादि विलोक्यैव समारभन्ते न तु यथा कथञ्चन, अत एव प्रव्राजनादि कार्यमधिकृत्य परमविवेकिभिः शुभक्षेत्रे शुभां दिशमभिमुखी कृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रव्राजनव्रतारोपणादि कार्य कर्त्तव्यं नान्यथा, उक्तञ्च तद्विषयकग्रन्थे
'एसा जिणाण माणा खित्ताईयाय कम्मुणे भणिया । उदयाइ कारणं जं, तम्हा सव्वत्थ जइयव्वं ॥१॥" एषा जिनाना माज्ञा क्षेत्रादिकाश्च कर्मणो भणि ताः ।
उदयादि कारणं यत् , तस्मात् सर्वत्र यतितव्यम् ॥१॥ इतिछाया अस्याः संक्षेपतो व्याख्या-'एसा' इत्यादि, क्षेत्रादयोऽपि कर्मण उदयादौ कारणी भूताः 'भणिया' भणिताः कथिता जिनेश्वरैः, तस्मात् 'सव्वत्थ' सर्वत्र प्रव्राजनव्रतारोपणादौ शुभ तिथिनक्षत्रमुहूर्तावालोकने 'जइयव्वं' यतितव्यं यत्नो विधेयः 'एसा जिणाणमाणा' एषा
Loading... Page Navigation 1 ... 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738