Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 686
________________ चन्द्राप्तिप्रकाशिकाटीका० प्रा०१९ सू.१ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६६५ इत्यादि, सुगमम् । भगवानाह सम चक्रवालसंस्थानसंस्थितः न तु विषमचक्रवालसंस्थानसंस्थितः अथ विष्कम्भपरिधिविषये गौतमस्य प्रश्नः-'ता धायईसंडेणं दीवे' इत्यादि 'ता' तावत् 'धायईसडेणं दीवे' धातकी षण्डः खलु द्वीपः 'केवइए चक्कवालविक्खंभेणं' कियान् चक्रवालविष्कम्भेण 'एव विक्खंभो परिक्खेवो जोइस' एवम्-अनेन प्रकारेण धाातकोषण्डस्य विष्कम्भःपरिक्षेपःज्यौतिषं ज्योतिश्चक्रम् इतिसर्व 'जहा जीवाभिगमे जाव ताराओ' यथा जीवाभिगमे तथा तारा पर्यन्तं वाच्यम् । तथाहि तत्पाठः 'केवइए परिक्खेवेणं'-इत्यादि, सुगमम् । भगवानाह-'ता चत्तारि' इत्यादि धातकी पण्डस्य चक्रवालविष्कम्भश्चतुर्लक्षयोजनपरिमितः परिधिमाह-'इगतालीसं' इत्यादि एकचत्वारिंशद योजनलक्षाणि दश च सहस्राणि एक षष्टयधिकानि नव योजनशतानि (४११०९६१) किञ्चिद्विशेषोनानि, एतावत्परिमितः परिक्षेपो धातकी षण्डस्येति । परिधिभावना यथा जम्बूद्वीपविष्कम्भो लक्षयोजनपरिमितः, लवणसमुद्रस्य उभय पार्श्वतो वे द्वे योजनलक्षे इति तानि चत्वारि लक्षाणि धातको षण्डस्योभयतश्चत्वारि चत्वारि लक्षाणि मिलितानि भवन्ति-अष्टौ, तत एकं, चत्वारि, अष्टौ चेति मिलित्वा सर्वसंख्यया जातानि त्रयोदश लक्षाणि (१३०००००) ततोऽस्य राशेर्वर्गे कृते जातो राशिः एककः षट्को नवकः, तदुपरि च दश शून्यानि (१६९००. ००००००००) पुनरपि दशभिरेश राशि र्गुण्यते जातानि पूर्वोक्ताङ्कानामुपरि एकादश शून्या नि (१६९०००००००००००) एतेषां वर्गमूलानयने लब्धानि एकचत्वारिंशल्लक्षाणि, दश सहस्राणि नवशतानि एकषष्टयधिकानि (४११०९६१) यथोक्तानि योजनानामिति । अथ धातकीषण्डगत चन्द्रादिविषये गौतमस्य प्रश्नः-'ताधायईसंडेणं दीवे' इत्यादि सुगमम् भगवानाह 'धायईसंडेणं दीवे' धातकोषण्डे खलु द्वीपे 'बारस चंदा' द्वादशचन्द्राः प्राभासयन् वा ३ । द्वादशैव सूर्या अतपयन् वा ३ । अत्र नक्षत्राणि षत्रिंशदधिकानि त्रीणि शतानि (३३६) योगमयुजन् वा ३ । महाग्रहाः षट् पञ्चाशदधिकैकसहस्रसंख्यका (१०५६) श्चारमचरन् वा । ताराश्च-अष्टौ लक्षाणि, त्रीणि सहस्राणि सप्तच शतानि (८३०७००) कोटी कोटीनां शोभाम् अशोभन्त-अकुर्वन् वा ३. तत्कथमिति प्रदर्श्यते अत्र चन्द्रा द्वादशेति नक्षत्रसंख्या अष्टाविंशति दशभि र्गुण्यते जायन्ते षट्त्रिंशदधिकानि त्रीणि शतानि यथोक्तानि । एवमेकस्य चन्द्रस्य यो यो ग्रहपरिवारस्तारापरिवार श्चास्ति तस्य द्वादश भिर्गुणने यथोक्ता संख्या समागच्छतीति स्वयमवगन्तव्यम् अत्र परिधेः चन्द्रादीनां च प्रमाणप्रतिपादिका स्तिस्रो गाथाः सन्ति, ताश्च सुगमाः । इति जीवाभिगमपाठव्याख्या । ___ अयं धातकी षण्डः केन समुद्रेण परिवेष्ठितः ? इत्याह-'ता धायईसंडेणं' इत्यादि धातकीषण्डं द्वीपं कालोदः समुद्रः परिक्षिप्य परिवेष्टय तिष्ठति । अस्य संस्थानविषये गौतमस्य ८४

Loading...

Page Navigation
1 ... 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738