SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ६५८ चन्द्रप्रज्ञप्तिसूत्रे संस्थितः । तावत् धातकीषण्डः खल द्वीपः कियत्कः चक्रवालविष्कम्मेण ? एवं विष्कमः परिक्षेपः ज्योतिषं यथा जोवाभिगमे यावत् तारा: कियत्कः परिक्षेपेण आख्यातः १ इति वदेत् । तावत् चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्भेण एकचत्वारिंशत योजनशतसहस्राणि, दश च सहस्राणि, नव च एक षष्टानि योजन शतानि किञ्चिद्विशेषोनानि परिक्षेपेण आख्यात इति वदेत् । धातकी षण्डे खलु द्वीपे कियत्का श्चन्द्राः प्रभासयन् वा ३ पृच्छा तथैव धातकीषण्डे खल द्वीपे द्वादश चन्द्राः प्रभासयन् वा ३, द्वादश सूर्याः अतापयन् वा ३, त्रीणि षट्र त्रिशानि नक्षत्रशतानि योगमयुञ्जन् वा ३ एककं षट् पञ्चाशं महाग्रहसहस्त्रं चारमचरन् वा ३, अष्ट शतसहस्राणि, त्रीणि सहस्राणि, सप्तच शतानि तारागणकोटीकोटीनां शोभामशोभन्त वा ३ । गाथा:-"घातकीषण्डपरिरयः एक चत्वारिंशद् दशोत्तराणि शतसहस्राणि । नव च शतानि एक षष्टानि किजिवद्विशेषेण परिहीनानि ॥१॥ चतुर्विशति शशिरवयः, नक्षत्र शतानि च त्रीणि षट् त्रिंशानि । एकं च शतसहस्र, षट्र पञ्चाशत् धातकी षण्डे ॥२॥ अष्टैव शतसहस्राणि, त्रीणि सहस्राणि, सप्त च शतानि धातकी षण्डे द्वोपे, तारा गण कोटि कोटीनाम् ॥३॥ तावत् धातकीषण्ड खलु द्वीपं कालोदः खलु समुद्रो वृत्तो वलयाकारसंस्थानसं सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति । तावत कालोदः खल समद्रः किं समचक्रवालसंस्थितः विषमचक्रवालसंस्थितः ? समचक्रवालसंस्थितः नो विषमचक्रवाल संस्थितः एवं विष्कम्भः परिक्षेपः ज्यौतिषं च यथा यथा जीवाभिगमे तथा भणितव्यं यावत्ताराः । (तावत् कालोदः खलु समुद्रः कियत्कः चक्रवालविष्कम्भेण ? कियत्कः परिक्षेपेण आख्यात ? इति वदेत् तावत् कालोदः खलु समुद्रः अष्ट योजनशतसहस्राणि चक्रवाल विष्कम्मेण प्रज्ञप्तः, एकनवति योजनशतसहस्राणि, सप्ततिश्च सहस्राणि षट् पञ्चोत्तराणि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण आख्यात इति वदेत् । तावत् कालोदे खलु समुद्रे कियन्तः वन्द्राः प्राभासयन् वा इति पृच्छा, तावत् कालोदे खलु समुद्र द्विचत्वारिंशत् चन्द्राः प्राभासयन् ३ द्विचत्वारिंशत् सूयाः अतापयन् वा ३ एकादश षट् सप्ततानि नक्षत्रशतानि योगमयुञ्जन् ३, त्रीणि सहस्राणि षट् षण्णव तानि चारमचरन् वा ३, अष्टाविंशतिश्च शतसहस्राणि, द्वादश सहस्राणि, नववशतानि पञ्चाशत् तारागण कोटीकोट्यः शोभामशोभन् वा शोभन्ते वा शोभिष्यन्ति वा । गाथा:"एकानवतिः सप्ततानि सहस्राणि परिरयस्तस्य। अधिकानि षट् पञ्चोत्तराणि कालोदधि वरस्य ॥१॥ द्विचत्वारिंशच्चन्द्रा, द्विचत्वारिंशच दिनकरा दीप्ताः । कालोदधौ एते, चरन्ति संबद्धलेश्याकाः ॥२॥ नक्षत्रसहस्रमेकमेव षट् सप्ततं च शतमन्यत् । षट् च शतानि षण्णवतानि महाग्रहाः त्रीणि च सहस्राणि ॥३॥ अष्टाविंशतिः कालोदधौ द्वादश च सहस्राणि नव च शतानि पञ्चाशतानि तारागण कोटि कोटीनाम् ॥४॥ तावत् कालोदं खलु समुद्र पुष्करवरो नाम द्वोपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति । तावत् पुष्करवरः खलु द्वीपः किं समचक्रवालसंस्थितः ? विषमचक्रवालसंस्थितः ? तावत् समचक्रवालसंस्थितः नो विषम चक्रवालसंस्थितः । एवं विष्कम्भः, परिक्षेपः, ज्यौतिषं यथा जीवाभिगमे यावत्ताराः।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy