Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चन्द्रप्रक्षप्तिसूत्रे वर्षसहस्रैरभ्यधिकम् । तावत् सूर्यविमाने खलु भदन्त ! देवानां कियत्कं कालं स्थितिः प्रज्ञप्ता ? जघन्येन चतुर्भागपल्योपमम्, उत्कर्षेण पल्योपमं वर्षसहस्राभ्यधिकम् तावत् सूर्यविमाने खलु भदन्त ! देवोनां कियत्कं कालं स्थितिः प्रज्ञप्ता ? जघन्येन चतुर्भाग पल्योपमम्, उत्कर्षेण अर्द्धपल्योपमं पञ्चभिर्वर्षशतैरभ्यधिकम् तावत् गृहविमाने खलु भदन्त ! देवानां कियत्कं कालं स्थितिः प्रज्ञप्ता ? जघन्येन चतुर्भागपल्योपमम् उत्कर्षेण पल्योपमम् तावत् गृहविमाने खलु भदन्त ! देवीनां कियत्कं कालं स्थितिः प्रज्ञप्ता ? जघन्येन चतुर्भागपल्योपमम्, उत्कर्षेण अर्द्धपल्योपमम् । तावत् नक्षत्र विमाने खल भदन्त ! देवानां कियकं कालं स्थितिः प्रज्ञप्ता ? जघन्येन चतुर्भागपल्योपमम् उत्कर्षेण पल्योपमम् तावत् नक्षत्रविमाने खलु भवन्त ! देवीनां कियत्कं कालं स्थितिः प्रज्ञप्ता ? जघन्येन अष्ट भागपल्योपमम् उत्कर्षेण चतुर्भागपल्योपमम् तावत् ताराविमाने खलु भदन्त ! देवानां पृच्छा जघन्येन अष्ट भागपल्योपमम् उत्कर्षेण चतुर्भागपल्योपमम् । तावत् तारा विमाने खलु भदन्त । देवीनां कियत्कं कालं स्थितिः प्रज्ञप्ता ? तावत् जघन्येन अष्ट भागपल्योपमम्, उत्कर्षेण सातिरेकाष्टभागपल्योपमम् ॥४॥
व्याख्या—अत्र ज्यौतिष्कदेवदेवीनां स्थितिकथनं वर्तते, तद्विषयकोऽत्र प्रश्नः-'ता जोइसियाणं' इत्यादि, सामान्य ज्यौतिष्कविषये पृच्छति भगवानाह-'जहण्णेणं, इत्यादि, ज्यौतिष्काणां स्थितिः जघन्येन अष्टभागपल्योपमा, पल्योपमस्याष्टमभागपरिमिता उत्कर्षेण शतसहस्रवर्षाधिकपल्योपमप्रमाणा लक्ष वर्षाधिकमेकं पल्योपमं स्थितिः । ज्यौतिष्कदेवीनां स्थितिः जधन्येन पूर्वोक्तैव अष्टभागपल्योपमा पल्योपमस्याष्टमभामपरिमिता, उत्कर्षेण पञ्चाशद्वर्षसहस्रैरधिकाऽर्द्धपल्योपमा। चन्द्रविमानस्थितदेवानां स्थितिर्जघन्येन चतुर्भागपल्योपमा पल्योपमस्य चतुर्थभागपरिमिता, उत्कर्षेण शतसहस्रवरधिका पल्योपमप्रमाणा लक्षवर्षाधिकं पल्योपमं स्थितिः । चन्द्र विमानगतदेवीनां च स्थिति जघन्येन चतुर्भागपल्योपमा, ऊत्कर्षण पञ्चाशद्वर्षसहस्रैरधिकाऽपल्योपमा । 'ता सूरविमाणेणं' इत्यादि, सूर्यविमानगत देवानां स्थितिर्जघन्येन चतुर्भागपल्योपमा, उत्कर्षेण सहस्रवर्षाधिक पल्योपमप्रमाणा । तद्गत देवीनां स्थिति धन्येन चतुर्भागपल्योपमा, उत्कर्षेण पञ्चशत वर्षेरधिकाऽर्द्धपल्योपमप्रमाणा । 'ता गहविमाणेण' इत्यादि, ग्रहविमानगतदेवानां स्थितिर्जघन्येन चतुर्भागपल्योपमा, उत्कर्षण पल्योपमपरिमिता । ग्रह विमानगतदेवोनां स्थितिर्जघन्येन चतुर्भाग पल्योपमा, उत्कर्षेणार्द्ध पल्योपमप्रमाणा। 'ता णक्खनविमाणेणं'. इत्यादि, नक्षत्रविमानगतदेवानां स्थितिर्जघन्येन चर्तुभागपल्योपमा उत्कर्षेण अर्द्ध पल्योपमप्रमाणा, देवीनां अष्टभागपच्योपमा, पल्योपमस्याष्टमो भागः, उत्कर्षेण चतुर्भागपल्योपमप्रमाणा पल्योपमस्य चतुर्थभागः । 'ता तारा विमाणेणं' इत्यादि, तारा विमानगतदेवानां स्थितिर्जघन्येन अष्टभागपल्योपमा, उत्कर्षेण चतुर्भागपल्योपमप्रमाणा ।. तद्गतदेवीनां स्थितिर्जघन्येन अष्टभागपल्योपमा, उत्कर्षेण सातिरेकेति किञ्चिदधिकाष्टभागपल्योपमप्रमाणेति ।। सूत्र १४ ॥
Loading... Page Navigation 1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738