SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रक्षप्तिसूत्रे वर्षसहस्रैरभ्यधिकम् । तावत् सूर्यविमाने खलु भदन्त ! देवानां कियत्कं कालं स्थितिः प्रज्ञप्ता ? जघन्येन चतुर्भागपल्योपमम्, उत्कर्षेण पल्योपमं वर्षसहस्राभ्यधिकम् तावत् सूर्यविमाने खलु भदन्त ! देवोनां कियत्कं कालं स्थितिः प्रज्ञप्ता ? जघन्येन चतुर्भाग पल्योपमम्, उत्कर्षेण अर्द्धपल्योपमं पञ्चभिर्वर्षशतैरभ्यधिकम् तावत् गृहविमाने खलु भदन्त ! देवानां कियत्कं कालं स्थितिः प्रज्ञप्ता ? जघन्येन चतुर्भागपल्योपमम् उत्कर्षेण पल्योपमम् तावत् गृहविमाने खलु भदन्त ! देवीनां कियत्कं कालं स्थितिः प्रज्ञप्ता ? जघन्येन चतुर्भागपल्योपमम्, उत्कर्षेण अर्द्धपल्योपमम् । तावत् नक्षत्र विमाने खल भदन्त ! देवानां कियकं कालं स्थितिः प्रज्ञप्ता ? जघन्येन चतुर्भागपल्योपमम् उत्कर्षेण पल्योपमम् तावत् नक्षत्रविमाने खलु भवन्त ! देवीनां कियत्कं कालं स्थितिः प्रज्ञप्ता ? जघन्येन अष्ट भागपल्योपमम् उत्कर्षेण चतुर्भागपल्योपमम् तावत् ताराविमाने खलु भदन्त ! देवानां पृच्छा जघन्येन अष्ट भागपल्योपमम् उत्कर्षेण चतुर्भागपल्योपमम् । तावत् तारा विमाने खलु भदन्त । देवीनां कियत्कं कालं स्थितिः प्रज्ञप्ता ? तावत् जघन्येन अष्ट भागपल्योपमम्, उत्कर्षेण सातिरेकाष्टभागपल्योपमम् ॥४॥ व्याख्या—अत्र ज्यौतिष्कदेवदेवीनां स्थितिकथनं वर्तते, तद्विषयकोऽत्र प्रश्नः-'ता जोइसियाणं' इत्यादि, सामान्य ज्यौतिष्कविषये पृच्छति भगवानाह-'जहण्णेणं, इत्यादि, ज्यौतिष्काणां स्थितिः जघन्येन अष्टभागपल्योपमा, पल्योपमस्याष्टमभागपरिमिता उत्कर्षेण शतसहस्रवर्षाधिकपल्योपमप्रमाणा लक्ष वर्षाधिकमेकं पल्योपमं स्थितिः । ज्यौतिष्कदेवीनां स्थितिः जधन्येन पूर्वोक्तैव अष्टभागपल्योपमा पल्योपमस्याष्टमभामपरिमिता, उत्कर्षेण पञ्चाशद्वर्षसहस्रैरधिकाऽर्द्धपल्योपमा। चन्द्रविमानस्थितदेवानां स्थितिर्जघन्येन चतुर्भागपल्योपमा पल्योपमस्य चतुर्थभागपरिमिता, उत्कर्षेण शतसहस्रवरधिका पल्योपमप्रमाणा लक्षवर्षाधिकं पल्योपमं स्थितिः । चन्द्र विमानगतदेवीनां च स्थिति जघन्येन चतुर्भागपल्योपमा, ऊत्कर्षण पञ्चाशद्वर्षसहस्रैरधिकाऽपल्योपमा । 'ता सूरविमाणेणं' इत्यादि, सूर्यविमानगत देवानां स्थितिर्जघन्येन चतुर्भागपल्योपमा, उत्कर्षेण सहस्रवर्षाधिक पल्योपमप्रमाणा । तद्गत देवीनां स्थिति धन्येन चतुर्भागपल्योपमा, उत्कर्षेण पञ्चशत वर्षेरधिकाऽर्द्धपल्योपमप्रमाणा । 'ता गहविमाणेण' इत्यादि, ग्रहविमानगतदेवानां स्थितिर्जघन्येन चतुर्भागपल्योपमा, उत्कर्षण पल्योपमपरिमिता । ग्रह विमानगतदेवोनां स्थितिर्जघन्येन चतुर्भाग पल्योपमा, उत्कर्षेणार्द्ध पल्योपमप्रमाणा। 'ता णक्खनविमाणेणं'. इत्यादि, नक्षत्रविमानगतदेवानां स्थितिर्जघन्येन चर्तुभागपल्योपमा उत्कर्षेण अर्द्ध पल्योपमप्रमाणा, देवीनां अष्टभागपच्योपमा, पल्योपमस्याष्टमो भागः, उत्कर्षेण चतुर्भागपल्योपमप्रमाणा पल्योपमस्य चतुर्थभागः । 'ता तारा विमाणेणं' इत्यादि, तारा विमानगतदेवानां स्थितिर्जघन्येन अष्टभागपल्योपमा, उत्कर्षेण चतुर्भागपल्योपमप्रमाणा ।. तद्गतदेवीनां स्थितिर्जघन्येन अष्टभागपल्योपमा, उत्कर्षेण सातिरेकेति किञ्चिदधिकाष्टभागपल्योपमप्रमाणेति ।। सूत्र १४ ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy