Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१८सू.३मन्दरलोकान्तपर्वतात्चन्द्रस्यपरिवारज्योतिश्चकचारम्६३७ देवस्स अट्ठासीई गहा परिवारो पण्णत्तो, अट्ठावीसं णक्खत्ता परिवारो पण्णत्तो, माहा “छावट्ठि सहस्साइं, णवचेव सयाई, पंचुत्तराई पंचसयराई एगससी परिवारो, तारा गण कोडि कोडीणं ।१। परिवारो पण्णत्तो ॥३॥
छाया--तावत् एकैकस्य खलु चन्द्रस्य देवस्य कियन्तो ग्रहाः परिवारः प्रज्ञप्तः ? कियन्ति नक्षत्राणि परिवारः प्रज्ञप्तः १. कियन्त्यस्ताराः परिवारः प्रज्ञप्तः ? । तावत् एकैकस्य खलु चन्द्रस्य देवस्य अष्टाशीतिम्रहाः परिवारः प्रज्ञप्तः, अष्टाविंशतिनक्षत्राणि परिवारः प्रज्ञप्तः, गाथा-षट् षष्टिः सहस्राणि, नव चैव शतानि पञ्चोत्तराणि (६६९०५) । एकशशि परिवारः, तारा गण कोटिकोटिनाम् ॥१॥ परिवारः प्रज्ञप्तः ॥सू० ३॥
व्याख्या-'ता एगमेगस्स णं' इत्यादि चन्द्रपरिवारप्रतिपादकं सूत्रं सुगम मिति न व्याख्यायते, नवरं चन्द्रस्य तारापरिवारपरिमाणं-पञ्चोत्तरनवशताधिकषट्षष्टि सहस्रकोटोकोटी संख्यक मिति ॥सू०३॥
अथ मन्दरपर्वतात् ज्योतिश्चक्रस्यान्तरमाह-ता 'मंदरस्स णं' इत्यादि,
मूलम् –ता मंदरस्स णं पव्वयस्स केवइयं अबाहाए जोइसे चारं चरइ ? ता एकारस एक्कवीसाइं जोयणसयाइं अबाहाए जोइसे चारं चरइ । ता लोयंताओ णं केवइयं अबाहाए जोइसे पण्णत्ते ? ता एक्कारस एकादपई जोयणसयाद्-अबाहाए जोइसे पण्णत्ते ॥ सू०४॥
छाया--तावत् मन्दरस्य खलु पर्वतस्य कियत्या अबाधया ज्यौतिषं चारं चरति? तावत् एकादश. एकविंशानि योजनशतानि अबाधया ज्योतिषं चारं चरति । तावत लोकान्तात् खलु कियत्या अबाधया ज्यौतिषं प्रज्ञप्तम् १ तावत् एकादश एकादशानि योजनशतानि अबाधया ज्यौतिषं प्राप्तम् ॥स्० ॥४॥
व्याख्या - ‘ता मंदरस्स णं' इत्यादि मन्दरपर्वतविषयकज्यौतिश्चक्रान्तरसूत्रमपि सुगममेव, नवर ज्योतिश्चक्रं मेरोः सर्वनः सर्वदिक्षु एकविंशत्यधिकानि एकादश योजनशतानि मुक्त्वा तदनन्तर चक्रवालतया ज्योतिश्चक्रं चारं चरति । अथ लोकान्तात्तदेव प्रदर्श्यते 'ता लोयंताओ' इत्यादि 'ता' तावत् 'लोयंताओ' लोकान्तात् अर्वाक् लोकान्तात्पूर्व मित्यर्थः इत्यादि प्रश्नसूत्रं सुगमम् । भगवानाह 'ता एक्कारस' इत्यादि, 'ता' तावत् 'एक्कारस एक्काराइं जोयणसयाई' एकादश एकादशानि योजनशतानि एकादशाधिकानि एकादश योजनशतानि (११११) योजनानां 'अबाहाए' अबाधया-लोकान्तात्पूर्वमन्तरेण-लोकान्तभागात् लोकाभिमुख एकादशाधिकैकादशशतयोजनानि आगत्यात्रान्तरे 'जोइसे' ज्योतिष ज्योतिश्चक्रं 'पण्णत्ते' प्रज्ञप्त भगवतेति । सू०॥४॥
अथाने जीवाभिगमस्यातिदेशमाह-एवं जहा जोवाभिगमे' इत्यादि । . .
Loading... Page Navigation 1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738