Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
शिका टीका प्रा. १३ सू. ३ .... मण्डलेषु चन्द्रार्द्धमासचारनिरूपणम् ५५० यथा “परमाणुप्रदेशः" इति कथने परमाणुरप्रदेश एव, यस्तु अप्रदेशः स परमाणुरपि भवति अपरमाणुरपि भवति क्षेत्रप्रदेशादिः इत्याशङ्कायामाह सूत्रकारः 'ता चंदे' इत्यादि, 'ता चंदें अदमासे नो नक्खत्ते अद्धमासे' यथा नाक्षत्रोऽर्द्धमासश्चान्द्रोऽमासो न भवति तथैव चान्दोन ऽर्द्धमासोऽपि नाक्षत्रोऽर्द्धमासो न भवति, यतो नाक्षत्रार्द्धमासरूपे एकस्मिन्नयने सामान्यतश्चन्द्रस्य त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागाः ( १३।१३) भवन्ति, चान्द्रऽर्द्धमासे च चतुदर्श मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्विशत्यधिक शतभागसत्का द्वात्रिंद्भागाः (१४। ३२ ) भवन्ति ततो नाक्षत्रार्द्धमास-चान्द्रार्द्धमासयोः परस्परं न साम्यमिति ।
१२४ पुनीतमः पृच्छति 'ता' तावत् 'नक्खत्ताओ अद्धमासाओ' नाक्षत्राद् अर्द्धमासात् ‘से चंदे' स चन्द्रः 'चंदेणं अद्धमासेणं' चान्द्रेण अर्द्धमासेन 'किमधियं चरइ' किमधिकं कियत्परिमितमधिकं चरति ? भगवानाह--'ता एगं' इत्यादि, 'ता' तावत् 'एगं अद्धमंडलं' एकमर्द्धमण्डलं 'चरई' चरति, 'अद्धमंडलस्स' द्वितोयस्य चार्द्धमण्डलस्य ‘चत्तारि य सत्तष्ठिभागाई' चतुरः सप्तषष्टिभागान् पुनश्च 'सत्तट्टिमागं' एकं सप्तषष्टिभागं 'एगतीसाए छित्ता' एकत्रिंशता छित्त्वा एकस्य सप्तषष्टिभागस्य एकत्रिंशतं भागान् कृत्वा तन्मध्यात् 'नवभागाई' नवभागान् नब एकत्रिंशद्भागान् (१ ) । एतावत्परिमितं चन्द्रः नाक्षत्रार्द्धमासात्
६७३१ चान्द्रेण अर्द्धमासेन अधिकं चरतीति भावः । कथमेदिति प्रदर्य अत्रापि त्रैराशिकं कर्त्तव्यम् तथाहि--यदि चतुर्विशत्यधिकेन पर्वशतेन अष्टषष्टयधिकानि सप्तदश मण्डलशतानि लभ्यन्ते तर्हि एकेन पवणा किं लभ्यते ? राशित्रयस्थापना-(१२४।१७६८।११) अत्रान्त्येन राशिना मध्यराशेर्गुणानात् जातस्तावानेन ( १७६९) तत आधेन राशिना (१२४ ) भागो हरणीयः, ततः छेउछेदकराश्योश्चतुष्केन अपवत्तेना क्रियते, कथम् ? अत्र छेद्यराशिः अष्टषष्टयधिकानि सप्तदशशतानि (१७६८) अस्य चतुष्केन अपवर्त्तनेति चतुर्भिर्भागो हियते लब्धानि द्विचत्वारिंशदधिकानि चत्वारिशतानि (४४२) ततश्छेदकराशेश्चतुर्विशत्यधिकशतरूपस्य (१२४) चतुष्केन अपवर्तनेति चतुर्भिभागो हियते लब्धानि एकत्रिंशत् (३१) । ततोऽपवर्त्तितस्य छेघराशे चित्वारिंशदधिक चतुः शतरूपस्य (४४२) अपवर्तितेन छेदकराशिना एकत्रिंशद्रूपेण (३१) भागो हियते लब्धाश्चतुर्दश (१४) मण्डलानि, शेषास्तिष्ठन्ति अष्ट, ते चाष्ट एक त्रिंशद्रामाः ( १४! ८ )। तत एतस्माद् राशेर्नाक्षत्रार्द्धमासगम्यं क्षेत्रम्-त्रयोदश मण्डलानि, एकस्य च
Loading... Page Navigation 1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738