Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
पन्नतिप्रकाशिकाटोकाप्रा. १३. सू. ३ मण्डलेषु चन्द्रार्धमासचारनिरूपम् ५८७ प्राकनमयनमुत्तरस्यां दिशि सर्वाभ्यन्तरे मण्डले त्रयोदश सप्तषष्टिभागपर्यन्ते परिसमाप्तं भवति, तदनन्तरं द्वितीयायनप्रवेशे चतुः पञ्चाशता सप्तषष्टिभागैः सर्वाभ्यन्तरं मण्डलं परिसमाप्य ततो द्वितीये मण्डले चारं चरति । तत्र त्रयोदशभागपर्यन्ते एकमर्द्धमण्डलं द्वितयस्यायनस्य परिसमाप्तं भवति । द्वितीयमर्द्धमण्डलमुरस्यां सर्वाभ्यन्तरात्तृतीयेऽर्द्धमण्डले त्रयोदशभागपर्यन्ते, तृतीयमर्द्धमण्डलं दक्षिणस्यां दिशि चतुर्थेऽर्द्धमण्डले, चतुर्थमर्द्धमण्डलमुत्तस्यां दिशि पञ्चमेऽर्द्धमण्डले, पञ्चममर्द्धमण्डलं दक्षिणस्यां दिशि षष्ठेऽर्द्धमण्डले, षष्ठमर्द्धमण्डलमुत्तरस्यां दिशि सप्तमेऽर्द्धमण्डले, सप्तममर्द्धमण्डलं दक्षिणस्यां दिशि अष्टमेऽर्द्धमण्डले, अष्टममर्द्धमण्डलमुत्तस्यां दिशि नवमेऽर्द्धमण्डले, नवममर्द्धमण्डलं दिक्षिणस्यां दिशि दशमेऽर्द्धमण्डले, दशममर्द्धमण्डलमुत्तस्यां दिशि एकादशेऽर्द्धमण्डले, एकादशमर्द्धमण्डलं, दक्षिणस्यां दिशि द्वादशेऽर्द्धमण्डले, द्वादशममर्द्धमण्डलमुत्तरस्यां दिशि त्रयोदशेऽर्द्धमण्डले, त्रयोदशमर्द्धमण्डल दक्षिणस्यां दिशि चतुर्दशेऽर्द्धमण्डले, चतुर्दशमईमण्डलं तच्च पञ्चदशस्यार्द्धमण्डलस्य त्रयोदशभागवर्यन्ते परिसमाप्तम् । तदनन्तरं त्रयोदश सप्तषष्टिभागान् अन्यान् पञ्चदशमण्डलसत्कान् चरति । एतावता द्वितीयमयनं परिसमाप्तं भवति । चतुर्दशे च मण्डले संक्रान्तः सन् चन्द्रः प्रथमक्षणादूचं सर्वबाह्यमण्डलाभिमुखं चारं चरति, ततः परमार्थतः कतिपयभागातिक्रमे पञ्चदशे एव सर्वबाह्यमण्डले चन्द्रो वेदितव्यः । तदेकस्मिन्नयने पूर्वभागेन द्वितीयादीनि एकान्तरितानि चतुर्दशपर्यन्तानि सप्तअर्द्धमण्डानि चीर्णानि, पश्चिमभागे च तृतीयादीनि एकान्तरितानि त्रयोदश पर्यन्तानि षड् अर्द्धमण्डलानि, तत्र पूर्वभागे पश्चिमभागे वा यत् प्रतिमण्डलं स्वयं चीर्णमचीर्णं वा मण्डलं चरति तत्प्रदर्शयति-'ता दोच्चायणगए' इत्यादि 'ता' तावत् 'दोच्चायणगए चंदे' द्वितीयायनगतश्चन्द्रः 'पुरस्थिमाए भागाए' पौरस्त्याद् भागात् 'निक्खममाणे' निष्क्रामन् 'सत्तचउप्पण्णाई' सप्तचतुष्पञ्चाशत्कानि सप्तषष्टि भागसत्कानि त्रयोदश भागाश्च प्रथमायने चीर्णत्वात् 'जाई' यानि 'चंदे चन्द्रः 'परस्स चिन्नं' परस्य भत्र तृतीयार्थे षष्टीति परेण चिर्णानि मूले आर्षत्वादेकवचनम् 'पडिचरइ' प्रतिचरति 'सत्ततेरस गाई' सप्तत्रयोदशकानि सप्तषष्टिभाग सत्कानि 'जाई चंदे' यानि चन्द्रः 'अप्पणा चिण' आत्मना चीर्णानि 'चरइ' चरति । अत्रेयं भावना-मेरोः पूर्वस्यां दिशि यो भागः स पूर्व भागः, यश्चापरस्यां दिशि भागः स पश्चिमभागः कथ्यते। तत्र पूर्वभागे सप्तस्वपि द्वितीयादिषु एकान्तरितेषु चतुर्दशपर्यन्तेषु सप्तषष्टिभागप्रविभक्तेषु अर्द्धमण्डलेषु प्रत्येकं चतुष्पञ्चाशतं चतुष्पञ्चाशतं सप्तषष्टिभागान् चन्द्रः परेण सूर्यादिना चीर्णानि प्रतिचरति, तत्रैव द्वितीययुगे गतश्चन्द्रः सप्त च त्रयोदशत्रयोदश सप्तषष्टिभागान् स्वयं चीर्णान् चरतीति । 'ता दोच्चायणगए' इत्यादि, 'ता' इति, ततः 'दोच्चायणगए चंदे' द्वितीयायनगतश्चन्द्रः 'पच्चत्यिमाए भागाए' पाश्चात्याद् भागात् 'निक्खममाणे' निष्क्रामन् पश्चिमभागान्निक्रमण
Loading... Page Navigation 1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738