Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 610
________________ प्रकाशिका टीका प्रा.१३ सू. ३ मण्डलेषु चन्द्रार्द्धमासचार निरूपणम् ५४९ द्वितीयं चन्द्रायणं 'समत्ते भवइ' समाप्तं भवतीति । २ । यद्येवं द्वितीयमप्यवनमेतावत्प्रमाणं भवति ततो नाक्षत्रमासस्य चान्द्रमासस्य च किं साम्यमस्ति ? नेत्याह- 'ता शक्य ते' इत्यादि 'ता' तावत् 'नक्खत्ते मासे' नाक्षत्रो मासः 'नो चंदे मासे' नो चान्द्रो मासो भवति एवं 'चंदे मासे' चान्द्रो मासः 'णो णक्खत्ते मासे' नो नाक्षत्रो मासः चान्द्रो मासो नाक्षत्रो मासो न भवतीत्यर्थः । एवं श्रुत्वा गौतमः पृच्छति - 'ता णक्खताओ' इत्यादि 'ता' तावत् 'णक्खत्ताओ' नाक्षत्रात् मासात् 'चंदे' चंद्रः 'चदेणं मासेणं' चान्द्रेब मासेन 'किमधियं चरइ' किम् कियत्प्रमाणम् अधिकं चरति ? । एवं गौतमेन पृष्टे भगवानाह --- 'ता दो अद्धमंड़लाई' इत्यादि, 'ता' तावत् ' दो अद्धमंड़लाई चरई' द्वे अर्द्धमण्डले चरति, 'अट्टयस तद्विभागाई' अष्ट च सप्तषष्टिभागान् 'अद्धमंडलस्स' तृतीयस्यार्द्ध मण्डलस्य, तथा 'सत्तद्विभागं' च एकं च सप्तषष्टिभागं 'एक्कतो सधा छित्ता' एकत्रिंशद्धा छित्त्वा एकस्य सप्तषष्टिभागस्य एकत्रिंशद् भागान् कृत्वा तन्मध्यात् 'अद्वारसभागाई' अष्टादश भागान् चरति-(२ ८|१८ ) एतावत्परिमितं द्वितीये चन्द्रायणे चन्द्रश्चान्द्रेण मासेनाधिकं चरती ६७३१ भावः एतच प्रथमचन्द्रायणगताधिक्यात् द्विगुणं कृत्वा परिभावनीयम् । अथ यावता कालेन चान्द्रो मासः परिपूर्णो भवति तावन्मात्र तृतीयायनवक्तव्यतामाह'ता तच्चायणगए चंदे' इत्यादि, अत्र पूर्वसम्बन्धः परिभावनीयः - इह द्वितीयायनपर्यन्ते चतुर्दशेऽर्द्धमण्डले षड्विंशति संख्यक सप्तर्षाष्ट भागमात्रमाक्रान्तम् तच्च परमार्थतः पचदशमर्द्धमण्डलं वेदितव्यम्, तदभिमुखं बहुगतत्वात्, तदनन्तरं नीलवत्पर्वतप्रदेशे साक्षात् पञ्च दशमर्द्धमण्डलं प्रविष्टो भवति, तत्र प्रविष्टश्च प्रथमक्षणादूर्ध्वं सर्व बाह्यमण्डलानन्तरावक्लन (समीपस्थ) द्वितीयमण्डलाभिमुखं चरति, ततस्तस्मिन्नेव सर्व बाह्यमण्डलान्तरे अर्वाक्तने द्वितीयमण्डले चारं चरतश्चन्द्रस्यात्र विवक्षा वर्त्तते, ततोऽस्याधिकृत सूत्रत्रयस्य सम्बन्धो जानते'ता' तावत् 'तच्चायणगए चंदे' तृतीयायनगतश्चन्द्रः 'पच्चत्थिमाए भागाए, पाश्चात्याद् भागात् 'पविसमाणे' प्रविशन् 'बाहिराणंतरस्स' बाह्यानन्तरस्यार्वाग् भागवर्त्तिनः 'पम्पत्थिमिल्लस्स अद्धमंडलस्स' पाश्चात्यस्यार्द्ध मण्डलस्य 'इगतालीस सत्तद्विभागाई' एकचत्वारिंशत सप्तषष्टिभागान्, सप्तषष्टिसंख्यक भागानां मध्यात् षड् विंशति संख्यक सप्तषष्टिभागानां द्वितीयायनपर्यन्ते चतुर्दशेऽर्द्धमण्डले समाक्रान्तपूर्वत्वात् शेषान् एकचत्वारिंशतं सप्तषष्टिभागानितिभावः, 'जाई चंदे' यान् चन्द्रः 'अप्पणी परस्स य चिण्णं पडिचरइ' आत्मना परेण वा सूर्यादिना चीर्णात् स्वपरभुक्तभागान् प्रतिचरति, 'तेरस सत्तट्ठि भागाई' त्रयोदश सप्तषष्टि भागास्ते ‘जाइं चंदे, यान् चन्द्रः - 'परस्स चिण्णं पडिचरइ, परेण सूर्यादिना चीर्णान् प्रति

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738