Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 588
________________ चन्द्रशशिप्रकाशिकाटीका प्रा. १२ सू. ६. सूयचन्द्रयोः हेममन्तीमावृत्ति स्वरूपम् ५६७ च चोत्तीसयं चेव" चन्द्रस्य चावृत्तयः शतं च चतुस्त्रिंशकं चैवेतिच्छाया, चन्द्रस्यावृत्तय एकस्मिन् युगे चतुस्त्रिंशदधिकशत (१३४) संख्यका भवन्ति । तत्र यस्मिन्नेव नक्षत्रे वर्त्तमानः सूर्यो दक्षिणा उत्तरा वा आवृत्तिः करोति तस्मिन्नेव नक्षत्रे वर्त्तमानश्चन्द्रोऽपि दक्षिणा उत्तराश्वावृत्तीः करोति, ततो या उत्तराभिमुखा आवृत्तयो युगे चन्द्रस्य दृष्टास्ताः सर्वा अपि नियतमभिजिता नक्षत्रेण सह योगे द्रष्टव्याः, याश्च दक्षिणाभिमुखा आवृत्तयस्ताः सर्वाः पुष्यक्षत्रेण सहयोगे द्रष्टव्याः । उक्तञ्च- "चंदस्स वि नायव्वा, आउट्ठीओ जुगम्मि जा दिट्ठा । अभिरणं पुस्सेण य, नियमं नक्खत्त सेसे णं" ॥१॥ छाया:- चन्द्रस्यापि ज्ञातव्याः, आवृत्तयो युगे या दृष्टाः । अभिजिता पुष्येण च नियमं नक्षत्रशेषेण ॥ १ ॥ इति । त्र 'नक्खत्त सेसेणं' इति नक्षत्रार्द्धमासेनेति शेषं सुगमत्वान्न व्याख्यायते । तत्र यदुक्तं पूर्वं चन्द्रस्य उत्तराभिमुखाः सर्वा अप्यावृत्तयोऽभिजिन्नक्षत्रयोगे भवन्तीतिपूर्वं उत्तराभिमुखा आवृत्तयोऽत्र भाव्यन्ते - यदि चन्द्रस्य चतुस्त्रिंशदधिकेनायनशतेन सप्तषष्टिर्नक्षत्र पर्याया लभ्यन्ते तदा प्रथमेऽयने किं लभ्यते ? राशित्रयस्थापना - ( १३४।६७ / १ ) अत्रापि पूर्वोक्तैव रीतिः, यथा अन्त्येन राशिना मध्यराशिं गुणयित्वा आद्येन राशिना भागो हियते, एषा त्रैराशिक गणितरीतिः, ततोऽन्त्यराशिना एकेन गुणितो मध्यराशिः सप्तषष्टि रूपस्तावानेव जातः सप्तषष्ठिः (६७) अस्याः सप्तषष्ठे राधेन चतुस्त्रिंशदधिकशतरूपेण राशिना भागो हियते, लब्धं पर्यायस्य एकमर्द्धम् । तस्मिंश्च पर्यायार्थे पञ्चदशोत्तराणि नवशतानि ( ९१५) सप्तषष्टि भागानाम् परिपूर्ण नक्षत्रपर्यायस्य त्रिंशदधिकाष्टादशशत (१८३०) सप्तषष्ठि भागात्मकत्वात्, तत्र पुष्यनक्षत्रस्य त्रयोविंशतौ (२३) सप्तषष्टिभागेषु भुक्तेषु सत्सु चन्द्रो दक्षिणायनं कृतवान् ततः शेषाश्चतु श्चत्वारिशत् सप्तषष्टि भागा: (४४) स्थितास्ते अनन्तरोदितराशेः पञ्चदशोत्तरे नव शत (९१५) रूपान् शोध्यन्ते स्थितानि शेषाणि एकसप्तत्यधिकानि अष्टौ शतानि (८७१) एषां सप्तषष्ट्या भागो हरणीयः । इह कानिचिन्नक्षत्राणि अर्द्ध क्षेत्राणि (पञ्चदश मुहूर्त्तात्मकानि ) तान अर्ध क्षेत्रात्म कत्वेन सप्तषष्टे रर्द्धेकृते सार्द्धत्रयस्त्रिंशत्सप्तषष्टिभागप्रमाणानि (३३॥ ), कानिचित् समक्षेत्राणि ( परिपूर्ण त्रिंशन्मुहूर्त्तात्मकानि ), तानि परिपूर्णक्षेत्रात्मकत्वेन : परिपूर्ण सप्तषष्टिभागप्रमाणानि (६७) कानिचिच्च दयर्धक्षेत्राणि ( पश्चचत्वारिंशन्मुहूर्त्तात्मकानि ) तानि परिपूर्णमेकं (६७) द्वितीयं चार्द्ध (३३||) मिति सार्दै कक्षेत्रात्मकत्वेन अर्द्धभागाधिकशतसंख्यक सप्तषष्टिभागप्रमाणानि (१०० ।। ) । गात्रं (८७१ ) त्वधिकृत्य सप्तषष्ट्या शुद्धयन्तीति सप्तषष्टचाऽत्र भागहरणं कर्त्तव्यम्, सप्तषष्ट्या भागे हृते लब्धास्त्रयोदश, शेषं नैव किञ्चिदवतिष्ठते तत उपरितनो राशि

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738