Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. १४ पञ्चदशदिवसरात्रीणां नामानि ३५५
ता कहते राईओ आहिय-त्ति वएज्जा ता एगमेगस्स णं णक्खत्तस्स पण्णरस राईओ पण्णत्ताओ, तं जहा पडिवया राई बितिया राई जाव पण्णरसी राई । ता एयासिणं पण्णरसण्हं राईणं पण्णरसनामधेज्जा षण्णत्ता, तं जहा उत्तमा १, य सुणक्खत्ता, एला एलावच्च ३ जसोधरा ४ । सोमणसा ५ चेव तहा, सिरिभूया ६ य बोद्धव्वा ॥१॥ बिजया, य वेजयंती ८, जयंति ९ अपराजिया १० य गच्छा ११ य समाहारा १२ चेव तहा तेया १३ य तहा य अइतेया १४ ॥२॥ देवाणंदा १५ निरई, रयणीणं, णाम धेज्जाई" ॥सू० १॥
दसमस्स पाहुडस्स चउद्दसमं पाहुडपाहुडं समत्तं ॥१०॥१४॥
छाया-तावत् कथं त्वया दिवसानां नामधेयानि आख्यातानि ? इति वदेत् । तावत् एकैकस्य खलु पक्षस्य पञ्चदश पञ्चदश दिवसाः प्रज्ञप्ताः, तद्यथा--प्रतिपदा दिवसः १, द्वितीया दिवसः २ यावत् पञ्चदशी दिवसः १९ । तावत् एतेषां खलु पञ्चदशानां दिवसानां पञ्चदश नामधेयानि प्रज्ञप्तानि, तद्यथा--"पूर्वाङ्गः १, सिद्धमनोरमश्च २, ततो मनोहरः ३ चैव । यशोभद्रश्च ४ यशोधरः ५सर्वकामसमृद्धः ६ इति च ॥१॥ इन्द्रमूर्धाभिषिक्तश्च, सो मनसः ८ धनञ्जयश्च ९ बोद्धव्यः अर्थसिद्धः १० अभिजातः अत्यशनश्च १२ शतञ्जयः १३ ॥२॥अग्निवेश्यः १४ उपशमः १५, दिवसानां नामधेयानि ॥"
तावत् कथं त्वया राज्यः आख्याताः इति वदेत् । तावत् एकैकस्य पक्षस्य पञ्चदश पञ्चदश राव्यः प्रज्ञप्ताः तद्यथा-प्रतिपदारात्री १, द्वितीयारात्री यावत् पञ्चदशीरात्री । तावत् एतासां खलु पञ्चदशानां रात्रीणां पञ्चदश नामधेयानि प्राप्तानि, तद्यथा"उत्तमा १ च सुनक्षत्रा २ ऐलापत्या ३ यशोधरा सौमनसा ५, चैव तथा, श्री संभूता ६ च बोद्धव्या ॥१॥ विजया ७, च वैजयन्ती ८, जयन्ति ९ अपराजिता १० च गच्छा ११ च समाहारा चैव तथा, तेजा १३ च तथा च अतितेजा १४ देवानन्दा १५ नितिः रजनीनां नामधेयानि ॥११॥
दशमस्य प्राभृतस्य चतुर्दशं प्राभृतप्राभृत समाप्तम् ॥१०॥१४॥ व्याख्या .. 'ता कहते' इति । 'ता' तावत् 'कह' कथं केन प्रकारेण केन क्रमेण 'ते, त्वया 'दिवसाणं' दिवसानां 'नामधेज्जा' नामधेयानि नामानि 'आहिया' आख्यातानि ? 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् एवं गौतमेन प्रश्ने कृते भगवानाह-'ता एगमेगस्स णं' इत्यादि 'ता' तावत् ‘एगमेगस्स ण पक्खस्स' एकैकस्य खलु पक्षस्य 'पण्णरस २' पञ्चदश पञ्चदश 'दिवसा पण्णता' दिवसाः प्रज्ञप्ताः 'तं जहा' तद्यथा-ते यथा-'पडिवयादिबसे' प्रतिपदादिवसः 'बितिया दिवसे' द्वितीया दिवसः २, 'जाव' यावत् 'पण्णरसीदिवसे' पञ्चदशीदिवसः १५।अत्र यावत्पदेन तृतीया दिवसः ३, चतुर्थी दिवसः ४ इत्यादिक्रमेण 'चतुर्दशी दिवसः इत्यन्तं संग्राह्यम् 'ता' तावत् 'एएसि णं पण्णरसण्हं दिवसाणं' एतेषां खलु पञ्चदशानां