Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. १२ नक्षत्राणां देवतादिकम् ३५३
“बम्ह १, विण्हू २ य वसू ३, वरुणो ४, तहऽजो ५ अणंतरं होइ । अभिवड्ढि ६, पूस ७, गंधव्य ८ चेव परतो जमो होइ ॥१॥ अग्नि १० पयावइ ११, सोमे १२, रुद्दे १३ अदिई १४ बहस्सई १५ चेव ।
णागे १६, पिइ १७ भग १८ अज्जम १२ सविया २० तट्ठा २१ य वाऊ २२ य ॥२॥
इंदग्गी २३, मित्तोवि २४ य इंदे २५ निरई २६ य आउ २७ विस्सू २८, य । नामाणि देवयाणं हवंति रिक्खाण जहक्कमसो" ॥३॥ छाया - "ब्रह्मा १ विष्णुश्च २, वसुः ३ वरुणः ४ तथा अजः ५ अन्तरं भवति । अभिवृद्धिः ६ पूषा ७ गन्धर्वः (अश्वमुखः) ८ चैव परतः यमो ९ भवति ॥१॥ अग्निः १० प्रजापतिः ११ सोम १२ रुद्रः १३ अदिति १४, बृहस्पति १५ श्चैव ।
नागः (सर्पः) १६ पितृ १७ भगः १८ अर्यमा १९, सविता २०, त्वष्टा २१ च वायुश्च २२ ॥२॥
इन्द्राग्निः २३, मित्रो २४ ऽपि च इन्द्रः २५ निरतिः २६ अप् २७ विश्वश्च २८ । नामानि देवतानां भवन्ति ऋक्षाणां यथाक्रमशः ॥३॥” इति । इत्येतानि अष्टाविंशतेर्नक्षत्राणां देवतानामानि प्रोक्तानि ॥सू० १॥ इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्ति प्रकाशिका व्याख्यायां दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतं
समाप्तम् ॥१० । १२॥ ॥ दशमस्य प्राभृतस्य त्रयोदशं प्राभृतप्राभृतम् ॥ गतं दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतम् , तत्राष्टाविंशतेर्नक्षत्राणामधिष्ठातृ देवता नामानि प्रदर्शितानि । अथ त्रयोदशं प्राभृतप्राभृतं प्रारभ्यते, अत्र च मुहूर्तानां नामानि वक्तव्यानीति तद्विषयकं सूत्रमाह-'ता कहं मुहुत्ताणं नामधेज्जा' इत्यादि ।
मूलम्–ता कहं ते मुहुत्ताणं नामधेज्जा आहिया ? ति वएज्जा । ता एगमेगस्स ण अहोरत्तस्स तीस मुहुत्ता पण्णत्ता, तंजहा - "रुद्दे १ सेए २, मित्ते ३, वाऊ ४ ठवई ५ तहेव अभिचंदे ६ । माहिद ७ बलव ८ बंभो ९ बहुसच्चे १० चेव ईसाणे ११ ॥१॥ तद्वे १२ य भवियप्पा १३, वेसमणे १४ वारुणे य १५ आणंदे १६ । विजए १७ य वीससेणे १८, पयावई १९ चेव उवसमए २० ॥२॥ गंधव्व २१ अग्गिवेस्से २२, सयवसहे २३ आयवं २४ च अममे २५ य । अणवं २६ च भोम २७ वसहे २८, सबढे २९ रक्खसे ३० चेव ॥३॥सू.०१॥
दसमस्स पाहुडस्स तेरसमं पाहुडपाहुडं समत्तं ॥१०॥१३॥
४५