SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. १२ नक्षत्राणां देवतादिकम् ३५३ “बम्ह १, विण्हू २ य वसू ३, वरुणो ४, तहऽजो ५ अणंतरं होइ । अभिवड्ढि ६, पूस ७, गंधव्य ८ चेव परतो जमो होइ ॥१॥ अग्नि १० पयावइ ११, सोमे १२, रुद्दे १३ अदिई १४ बहस्सई १५ चेव । णागे १६, पिइ १७ भग १८ अज्जम १२ सविया २० तट्ठा २१ य वाऊ २२ य ॥२॥ इंदग्गी २३, मित्तोवि २४ य इंदे २५ निरई २६ य आउ २७ विस्सू २८, य । नामाणि देवयाणं हवंति रिक्खाण जहक्कमसो" ॥३॥ छाया - "ब्रह्मा १ विष्णुश्च २, वसुः ३ वरुणः ४ तथा अजः ५ अन्तरं भवति । अभिवृद्धिः ६ पूषा ७ गन्धर्वः (अश्वमुखः) ८ चैव परतः यमो ९ भवति ॥१॥ अग्निः १० प्रजापतिः ११ सोम १२ रुद्रः १३ अदिति १४, बृहस्पति १५ श्चैव । नागः (सर्पः) १६ पितृ १७ भगः १८ अर्यमा १९, सविता २०, त्वष्टा २१ च वायुश्च २२ ॥२॥ इन्द्राग्निः २३, मित्रो २४ ऽपि च इन्द्रः २५ निरतिः २६ अप् २७ विश्वश्च २८ । नामानि देवतानां भवन्ति ऋक्षाणां यथाक्रमशः ॥३॥” इति । इत्येतानि अष्टाविंशतेर्नक्षत्राणां देवतानामानि प्रोक्तानि ॥सू० १॥ इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्ति प्रकाशिका व्याख्यायां दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतं समाप्तम् ॥१० । १२॥ ॥ दशमस्य प्राभृतस्य त्रयोदशं प्राभृतप्राभृतम् ॥ गतं दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतम् , तत्राष्टाविंशतेर्नक्षत्राणामधिष्ठातृ देवता नामानि प्रदर्शितानि । अथ त्रयोदशं प्राभृतप्राभृतं प्रारभ्यते, अत्र च मुहूर्तानां नामानि वक्तव्यानीति तद्विषयकं सूत्रमाह-'ता कहं मुहुत्ताणं नामधेज्जा' इत्यादि । मूलम्–ता कहं ते मुहुत्ताणं नामधेज्जा आहिया ? ति वएज्जा । ता एगमेगस्स ण अहोरत्तस्स तीस मुहुत्ता पण्णत्ता, तंजहा - "रुद्दे १ सेए २, मित्ते ३, वाऊ ४ ठवई ५ तहेव अभिचंदे ६ । माहिद ७ बलव ८ बंभो ९ बहुसच्चे १० चेव ईसाणे ११ ॥१॥ तद्वे १२ य भवियप्पा १३, वेसमणे १४ वारुणे य १५ आणंदे १६ । विजए १७ य वीससेणे १८, पयावई १९ चेव उवसमए २० ॥२॥ गंधव्व २१ अग्गिवेस्से २२, सयवसहे २३ आयवं २४ च अममे २५ य । अणवं २६ च भोम २७ वसहे २८, सबढे २९ रक्खसे ३० चेव ॥३॥सू.०१॥ दसमस्स पाहुडस्स तेरसमं पाहुडपाहुडं समत्तं ॥१०॥१३॥ ४५
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy