Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्र प्रज्ञप्तिसूत्रे
उत्तराभाद्रपदा ४, रेवती ५, अश्विनी ६, भरणी ७ तावत् कृत्तिकादिकानी सप्तनक्षत्राणि दक्षिणद्वाराणि प्रज्ञप्तानि तद्यथा - कृत्तिका १, रोहिणी २, संस्थाना (मृगशिरः) ३, आर्द्रा ४, पुनर्वसुः ५, पुण्यः ६, अश्लेषा | तावत् मघा दिकानि सप्तनक्षत्रोणि पश्चिमद्वाराणि प्रज्ञप्तानि तद्यथा - मघा १, पूर्वाफाल्गुनी २, उत्तराफाल्गुनी ३, हस्तः ४, चित्रा ५ स्वातिः ६, विशाखा । तावत् अनुराधादिकानी सप्तनक्षत्राणि उत्तरद्वाराणि प्रज्ञप्तानि तद्यथाअनुराधा, १, ज्येष्ठा २, मूलः ३ पूर्वाषाढा ४, उत्तराषाढा ५, अभिजित् ६, श्रवणः ७, ॥३॥ तत्र खलु ये ते एवमाहुः -- तावत् अश्विन्यादिकानी सप्तनक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानि, ते एवमाहुः तद्यथा - अश्विनी १ भरणी २, कृत्तिका ३, रोहिणी ४, संस्थाना (मृगशिरः) ५, आर्द्रा ६, पुनर्वसुः ७, तावत् पुष्यादिकानि सप्तनक्षत्राणि दक्षिणद्वाराणि प्रज्ञप्तानि; तद्यथा - पुष्यः १, अश्लेषा २, मघा, ३, पूर्वाफाल्गुनी ४, उत्तराफाल्गुनी ५, हस्तः ६, चित्रा ७। तावत् स्वातिकादिकानि सप्तनक्षत्राणि पश्चिमद्वाराणि प्रज्ञप्तानि, तद्यथा - स्वातिः १, विशाखा २, अनुराधा ३, ज्येष्ठा ४, पूर्वाषाढा ६ उत्तराषाढा | तावत् अभिजिदादिकानि सप्तनक्षत्राणि उत्तरद्वाराणि प्रज्ञप्तानि तद्यथा - अभिजित् १, श्रवणः २, धनिष्ठा ३, शतभिषक् ४, पूर्वाभाद्रपदा ५ उत्तराभाद्रपदा, रेवती ॥४॥ तत्र खलु ये ते एवमाहुः तावत् भरण्यादिकानि सप्तनक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानि ते एवमाहु तद्यथा - भरणी १, कृत्तिका २, रोहिणी ३, संस्थाना (मृगशिरः) ४, आर्द्रा ५, पुनर्वसुः ६, पुष्यः ७| तावत् अश्लेषादिकानि
नक्षत्राणि दक्षिणद्वाराणि प्रज्ञप्तानि तद्यथा - अश्लेषा १, मघा २, पूर्वाफाल्गुनी ३ उत्तराफाल्गुनी ४, हस्तः ५, चित्रा ६ स्वातिः । तावत् विशाखादिकानी सप्तनक्षत्राणि पश्चिमद्वाराणि प्रज्ञप्तनि, तद्यथा - विशाखा १, अनुराधा २, ज्येष्ठा ३, मूलः ६, पूर्वापाढा ५, उत्तराषाढा ६. अभिजित् । तावत् श्रवणादिकानी सप्तनक्षत्राणि उत्तरद्वाराणि प्रज्ञप्तानि तद्यथा - श्रवणः १, धनिष्ठा २, शतभिषक ३, पूर्वाप्रोष्ठपदा ४. उत्तराम्रोष्ठपदा ५, रेवती ६, अश्विनी ॥५॥ एते एवमाहुः । वयं पुनरेवं वदामः - तावत् अभिजिदादिकानि सप्त नक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानि तद्यथा अभिजित् १, श्रवणः २, धनिष्ठा ३, शत भिषेक ४, पूर्वा प्रोष्ठपदा ५, उत्तराप्रोष्ठपदा ६, रेवती ७ तावत् अश्विन्यादिका ने सप्तनक्षत्राणि दक्षिणद्वाराणि प्रज्ञप्तानि तद्यथा अश्विनी १, भरणी २, कृत्तिका ३, रोहिणी ४, संस्थाना (मृगशिरः ) ५, आर्द्रा ६, पुनर्वसुः । तावत् पुष्यादि सप्तनक्षत्राणि पश्चिम द्वाराणि प्रज्ञप्तानि तद्यथा - पुष्यः १ अश्लेषाः २, मघा ३, पूर्वाफाल्गुनी ४, उत्तराफाल्गुनी, हस्तः ६, चित्रा ७ तावत् स्वातिकादिकानि सप्तनक्षत्राणि उत्तरद्वाराणि प्रज्ञप्तानि तद्यथा - स्वातिः १, विशाखा २, अनुरावा ३, ज्येष्ठा ४, पूर्वाषाढा ७॥ सूत्र- १॥ " इति चन्द्रशतिसूत्रे चन्द्रज्ञप्ति प्रकाशिका टीकायां दशमस्य प्राभृतस्य एकविंशतितमम् प्राभृतप्राभृतं समाप्तम् ||१०- २९ ॥
व्याख्या- 'ता कहंते जोइसदारा' इति, 'ता तावत् 'क' कथं केन क्रमेण 'ते' त्वया ‘जोइसदारा' ज्यौतिषद्वाराणि नक्षत्रद्वाराणि 'आहिया' आख्यातानि कथितानि 'ति वज्ज' इति वदेत् वदतु कथयतु हे भगवन् । इति गौतमेन पृष्ठे भगवानाह - ' तत्थ' इत्यादि, 'तत्थ' तत्र ज्यौतिषद्वारविषये खलु 'इमाओ' इमा वक्ष्यमाणाः 'पंच' पञ्चसंख्यकाः 'पडित्तीओ' प्रतिपत्तयः परमतरूपाः 'पण्णत्ताओ' प्रज्ञताः कथिताः । ता एव दर्शयति 'तत्थेगे' इत्यादि, 'तत्थ'
४१८