Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ दशमस्य पाभृतस्य, पञ्चमं प्राभृतमाभृतम् ॥ व्याख्यातं दशमस्य मूलप्राभृतस्य चतुर्थ प्राभृतप्राभृतम्, तत्र चन्द्रेण सार्धमष्टाविंशतिनक्षत्राणां योगः 'वभागादिकं च प्रदर्शितम्, अथास्मिन् पञ्चमप्राभृतप्राभृते योगसम्बन्धान्नक्षत्राणां कुलत्वम्, उपकुलत्वम्, कुलोपकुलत्वं च प्रदर्शयन्निदं सूत्रमाह- 'ता कहं ते कुला' इत्यादि ।
मूलम्-ता कहने कुला आहिया ति वएज्ज, तत्थ खलु इमे बारस कुला, बारस उवकुला, चत्तारि कुलोवकुला पण्णत्ता । बारस कुला तं जहा सविट्ठा, (धणिहा) कुलं १, उत्तराभवयाकुलं २, अस्सिणी कुलं ३, कत्तियाकुलं ४, मगसिरकुलं ५, पुस्स कुलं ६, मघाकुलं ७, उत्तराफग्गुणीकुलं ८, चित्ताकुलं ९, विसाहाकुलं १०, मूलंकुलं ११, उत्तरासाढाकुलं १२, बारस उचकुला तं जहा-सवणो उवकुलं १, पुव्वभदबयाउवकुलं २, रेवईउवकुलं ३, भरणीउवकुलं ४, रोहिणीउवकुलं ५, पुणव्वसुउवकुलं ६, अस्सेसाउवकुलं ७, पुव्वाफग्गुणी उवकुलं ८' हत्थोउवकुलं ९, साईउवकुलं १०, जेढाउवकुलं ११, पुवासाढाउवकुलं १२, चत्तारि कुलोवकुला तं जहा --अभिइकुलोवकुलं १, सयभिसया कुलोव कुलं २, अदा कुलोवकुलं ३, अणुराहा कुलोवकुलं ४ ॥सू० १॥
दसमस्स पाहुडस्स पंचमं पाहुडपाहुडं समत्तं ॥१०-५॥ छया-तावत् कथं ते कुलानि आख्यातानि इति वदेत्, ता खलु इमानि द्वादश कुलानि १२, द्वादश उपकुलानि १२, चत्वारि कुलोपकुलानि ४ प्रज्ञप्तानि । द्वादश कुलानि तद्यथा- अविष्ठा (धनिष्ठा) कुलम् १, उत्तराभाद्रपदाकुलम् २, अश्विनीकुलम् ३, कृत्तिकाकुलम् ४, मृगशिरः कुलम् ५, पुष्यकुलम् ६, मघाकुलम्, उत्तराफाल्गुनीकुलम् ८, चित्राकुलम् ९, विशाखा कुलम् १०, मूलं कुलम् ११, उत्तराषाढाकुलम् १२, द्वादश, उपकुलानि तद्यथा श्रवणः उपकुलम् १, पूर्वाभाद्रपदा उपकुलम् २, रेवती उपकुलम् ३, भरणी उपकुलम् ४, रोहिणी-उपकुलम् ५, पुनर्वसुः उपकुलम् ६, अश्लेषा-उपकुलम् ७, पूर्वाफाल्गुनी उपकुलम् ८, हस्तः उपकुलम् ९, स्वातिः - उपकुलम् १०, ज्येष्ठाउपकुलम् ११, पूर्वाषाढा-उपकुलम् १२, चत्वारि कुलोपकुलानि, तद्यथा-अभिजित् कुलोपकुलम्, १, शतभिषक् कुलोपकुलम् २, आर्द्रा-कुलोपकुलम् ३, अनुराधा कुलोपकुलम् |सू०१॥
दशमस्य प्राभृतस्य पञ्चमं प्राभृतप्राभृतं समाप्तम् १०-५॥ व्याख्या-ता कहं ते' इति ता' तावत् 'कह' कथं केन प्रकारेण 'ते' त्वया 'कुला' कुलानि 'आहिया' आख्यातानि-कथितानि ? 'ति वएज्जा' इति वदेत् वदतु-कथयतु हे भगवन् ! भगवानाह-'तत्थ' तत्र कुलादिविषये-खलु-निश्चयेन 'इमे' इमानि वक्ष्यमाणानि 'बारस' द्वादश 'कुला' कुलानि सन्ति तथा 'बारस' द्वादश 'उवकुला' उपकुलानि सन्ति, तथा 'चत्तारि' चत्वारि 'कुलोवकुला' कुलोपकुलानि सन्ति, । तत्र 'बारस' द्वादश 'कुला' कुलानि, भवन्ति 'तं जहा' तद्यथा तानि यथा 'सविट्ठा कुलं' इत्यादि, कुलानीति किम्, तत्राह यानि नक्षत्राणि यान् मासान् समापयन्ति मास सद्दशनामानि भवन्ति तानि नक्षत्राणि कुलानीति
३३