Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
Jain Education Internat
अष्टाविंशतितम उदयः । अथ प्रवर्तिनी पदस्थापनाविधिः ।
इह केचित् प्रवर्तिनीपदं महत्तरापदमेकाभिधानमेव भाषन्ते । केचिच्च पृथक् । अस्माभिश्च सर्वगच्छाचार्योपाध्यायसम्मत तथा पृथगेव उच्यते । तत्र प्रवर्तिनीपदार्हा व्रतिनी यथा - "जितेन्द्रिया विनीता च कृतयोगा धृतागमा। प्रियंवदा प्राञ्जला च दयार्द्रीकृतमानसा ॥ १ ॥ धर्मोपदेशनिरता सस्नेहा गुरुगच्छयोः । शान्ता विशुद्धशीला च क्षमावत्यतिनिर्मला ॥ २ ॥ निःसङ्गा लिखनाद्येषु कार्येषु सततोद्यता । धर्मध्वजाग्रुपधिषु | करणीयेषु सत्तमा ॥ ३ ॥ विशुद्धकुलसंभूता सदा स्वाध्यायकारिणी । प्रवर्तिनीपदं सा तु व्रतिनी ध्रुवमर्हति ॥ ४ ॥ इति प्रवर्तिनीपद योग्यव्रतिनीलक्षणम् ॥ प्रवर्तिनी पदस्थापनाविधिरभिधीयते । यथोक्तगुणयुक्ताया व्रतिन्याः कृतलोचायाः कृतमालुकस्तोकजलनानायाः श्राद्धजनकृतेन महता महोत्सवेन प्रवर्तिनीप दग्रहणं विधीयते । तत्र समवसरणस्थापनं प्रवर्तिनी पूर्ववत् त्रिः समवसरणं प्रदक्षिणयेत् । ततः सदशवेषरजोहरणमुखवस्त्रिकाधारिणी क्षमाश्रमणपूर्व निषद्यासीनस्य गुरोर्भगति "इच्छाकारेण तुझे अह्मं पवतिणीपयारोवणियं नंदिकावणियं वासक्खेवं करेह चेइ आई च वंदावेह" ततो गुरुर्वर्द्धमानविद्याभिमन्त्रित वासैर्वासक्षेप करोति । ततो गुरुप्रवर्तिन्यौ वर्द्धमानाभिः स्तुतिभिश्चैत्यवन्दनं कुरुतः । श्रुतशान्तिक्षेत्रादि
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310