Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
क्तमपि पात्रोपकरणं सर्व पात्रनिर्योगस्यान्तर्भवति । त्रयः प्रच्छादाः पटीद्वयं तृतीया कम्बली १० रजोहरणं धर्मध्वजः ११ मुखवस्त्रिका मुखाच्छादनवस्त्रम् १२ एष द्वादशविधो जिनकल्पिनां साधनामुपधिः । जिणकप्पिआ इति-जिनकल्पिनोपि द्विविधाः पाणिपात्रभुजः १ पात्रभुजश्च २ तौ द्वावपि द्विद्विविकल्पी, पाणिपात्रा द्विविधाः सप्रावरणा १ अप्रावरणाश्च २। दुगतिग इति-पाणिपात्राणामप्रावरणानां जिनकल्पिनामुपकरणद्वयं त्रयं । पात्रभृतामप्रावरणानां जिनकल्पिनामुपधिः नवविधो दशविधो वा । सप्रावरणानां पात्रभृतां जिनकल्पिनामुपधिरेकादशविधो द्वादशविधो वा इति जिनकल्पे अष्टप्रकार उपधिभेदः । पुत्तिरयः इति-मुखवस्त्रिकारजोहरणाभ्यां द्विविध उपधिः १ सचैककल्पयुतस्त्रिविधः २ स च कल्पद्वययुतश्चतुर्विधः ३ सच कल्पत्रययुतः पञ्चविधः ४ तथाच द्विविधो मुखवस्त्रिकारजोहरणरूपः सप्तविधपात्रनिर्योगयुतो नवधा भवति ५ त्रिविधो रजोहरणमुखवस्त्रिकैककल्परूपः सप्तविधपात्रनिर्योगयुतो दशधा भवति ६ चतुर्विधो। मुखवस्त्रिकारजोहरणकल्पद्वयरूपः सप्तविधपात्रनिर्योगयुत एकादशधा भवति ७ पञ्चविधो मुखवस्त्रिकारजोहरणकल्पत्रयरूपः सप्तविधपात्रनियोगयुतो द्वादशधा भवति ८ आद्यमुपकरणविकल्पचतुष्कमप्रावरणानां पाणिपात्राणां जिनकल्पिनां भवति । अपरं चोपकरणविकल्पचतुष्कं सप्रावरणानां पात्रभृतां जिनकल्पिना भवति । अथवा विशुद्धजिनकल्पिनां द्विभेदमेवोपकरणं भवति । पाणिपात्राणां रजोहरणमुखवस्त्रिकारूपं द्विविधमेवोपकरणं भवति । पात्रभृतां च मुखवस्त्रिकारजोहरणे सप्तविधपात्रनिर्योगश्च नवविधमुपकरणं भ.
Jain Education interne
F
For Private & Personal Use Only
jainelibrary.org
V

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310