SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ क्तमपि पात्रोपकरणं सर्व पात्रनिर्योगस्यान्तर्भवति । त्रयः प्रच्छादाः पटीद्वयं तृतीया कम्बली १० रजोहरणं धर्मध्वजः ११ मुखवस्त्रिका मुखाच्छादनवस्त्रम् १२ एष द्वादशविधो जिनकल्पिनां साधनामुपधिः । जिणकप्पिआ इति-जिनकल्पिनोपि द्विविधाः पाणिपात्रभुजः १ पात्रभुजश्च २ तौ द्वावपि द्विद्विविकल्पी, पाणिपात्रा द्विविधाः सप्रावरणा १ अप्रावरणाश्च २। दुगतिग इति-पाणिपात्राणामप्रावरणानां जिनकल्पिनामुपकरणद्वयं त्रयं । पात्रभृतामप्रावरणानां जिनकल्पिनामुपधिः नवविधो दशविधो वा । सप्रावरणानां पात्रभृतां जिनकल्पिनामुपधिरेकादशविधो द्वादशविधो वा इति जिनकल्पे अष्टप्रकार उपधिभेदः । पुत्तिरयः इति-मुखवस्त्रिकारजोहरणाभ्यां द्विविध उपधिः १ सचैककल्पयुतस्त्रिविधः २ स च कल्पद्वययुतश्चतुर्विधः ३ सच कल्पत्रययुतः पञ्चविधः ४ तथाच द्विविधो मुखवस्त्रिकारजोहरणरूपः सप्तविधपात्रनिर्योगयुतो नवधा भवति ५ त्रिविधो रजोहरणमुखवस्त्रिकैककल्परूपः सप्तविधपात्रनिर्योगयुतो दशधा भवति ६ चतुर्विधो। मुखवस्त्रिकारजोहरणकल्पद्वयरूपः सप्तविधपात्रनिर्योगयुत एकादशधा भवति ७ पञ्चविधो मुखवस्त्रिकारजोहरणकल्पत्रयरूपः सप्तविधपात्रनियोगयुतो द्वादशधा भवति ८ आद्यमुपकरणविकल्पचतुष्कमप्रावरणानां पाणिपात्राणां जिनकल्पिनां भवति । अपरं चोपकरणविकल्पचतुष्कं सप्रावरणानां पात्रभृतां जिनकल्पिना भवति । अथवा विशुद्धजिनकल्पिनां द्विभेदमेवोपकरणं भवति । पाणिपात्राणां रजोहरणमुखवस्त्रिकारूपं द्विविधमेवोपकरणं भवति । पात्रभृतां च मुखवस्त्रिकारजोहरणे सप्तविधपात्रनिर्योगश्च नवविधमुपकरणं भ. Jain Education interne F For Private & Personal Use Only jainelibrary.org V
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy