Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 262
________________ 6%95 -% 4%954-%0-%4-%25A4%22%A4%EX नालिकेरालावुमयेषु तृप्तिकरणकटाहटकादिषु यथाप्राप्तं यथायोग्यं यथाप्रयोजनं प्रमाणं, मृत्पात्रेषु च घटकुण्डादिषु साधुसंख्यापानान्नगवेषणाप्रमाणं, तथा च सर्वत्र यतिपात्रे दृष्टिपसरप्रतिलेखनाकरणं शुद्धिर्गवेप्यते इत्येव संस्थानं प्रमाणं च । यत उक्तमागमे-"जत्थ य करप्पवेसो जत्थ य सव्वत्थ दिद्विपसरो अ। तं किर मुणिणो पत्तं जुग्गं सेसं पुण अजुग्गं ॥१॥ वारस बाहिं ठाणा बारसठाणा य हुंति मज्झमि । पत्तपडिलेहणाए पणवीसयमो करप्पंसो॥२॥" पात्रबन्धप्रमाणं तु । पात्रप्रमाणेन व्यतिरिक्तं कर्तव्यं यथा पात्रबन्धने ग्रन्थौ दत्तौ कोणी चतुरङ्गुलौ तिष्ठतः । पात्रकस्थापनं गुच्छकश्च पात्रप्रतिलेखनं च त्रयाणां प्रमाणं |बितस्तिश्चत्वारोङ्गलाश्च पात्रस्थापने पात्रस्थापनादनन्तरं वितस्तिश्चत्वारोङ्गलाश्च याहुक्षेपार्थ ग्रन्थिदानार्थ च गवेष्यन्ते । गुच्छश्च तद्वत्, पात्रप्रतिलेखन्यां वितस्तिमात्रो दण्डकः, चतुरङ्गुला दशा, तथा च पटलाः सार्द्ध- हस्तद्वयदीर्घाः षत्रिंशदङ्गलपृथुलाः कदलीगर्भपत्रसमा भवन्ति, पुनरपि तेषां प्रमाणं यतिशरीरपात्रोत्सेधप्रमाणेन भवति, ते च ग्रीष्महेमन्तवर्षासु उत्कृष्टमध्यमजघन्याः प्राणिरक्षार्थ भवन्ति, त्रिश्चतुःपञ्चप्रमाणा ग्रीष्मे, चतुःपञ्चषटुप्रमाणा हेमन्ते, पञ्चषट्सप्तप्रमाणा वर्षासु, ते च निविडसूत्रव्यूतममृणवस्त्रमया भवन्ति ।। रजस्त्राणे प्रमाणं पात्रप्रमाणं, न ततोपि पात्रवेष्टने क्रियमाणे सर्वपरिधिकोणैश्चतुरोङ्गुलान्न कामति तथा विधेयं, कल्पाः साध्वङ्गदीर्घताप्रमाणाः सार्धद्वयहस्तपृथुला भवन्ति, तत्र द्वौ कार्पासवस्त्रमयो एकश्च ऊर्णामयः, रजोहरणं च द्वात्रिंशदङ्गलप्रमाणं, तत्र चतुर्विशत्यङ्गुलो दण्डः, अष्टाङ्गुला दशाः, कचिद्दीर्घ हीन ASAC -% Jain Education Internet For Private & Personal Use Only Mw.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310