Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 276
________________ Jain Education Internati शोभनम् ॥ १ ॥ सर्वदा मुनयो ब्रह्मयुक्तियुक्ता भवन्ति हि । विशेषेण वसन्ते तु स कालो हि स्मरोल्बणः ॥ २ ॥ भिक्षाविशुद्धिं कुर्वीत विहारं च दिने दिने । प्रायेण निर्जनेरण्ये वसेत् स्त्रीपशुवर्जिते ॥ ३ ॥ व्यायामशीलो हि मुनिस्तिष्ठेत् सुरभिसंगमे । अखाध्यायनिवृत्त्यर्थं विदध्यात् कल्पतर्पणम् ॥ ४ ॥" अत्र व चैत्र| शुद्धपञ्चमीमारभ्य वैशाख कृष्णप्रतिपदं यावत् भूमण्डले सर्वत्र निजनिजकुलदेवतापूजनार्थं जनाः सर्वेपि पशुमहिषवधं विदधति, तेन मुनीनामखाध्यायः कालः, न तत्रागमपाठकालग्रहणादि कल्पते । ततस्तदपनयनार्थं कल्पतर्पणं कुर्यात् । तस्य चायं विधिः, वैशाख कृष्णप्रतिपदि व्यतीतायामालोचनात्तपोयोग्ये दिने "मृदुध्रुवचरक्षिप्रैवारे भौमं शनिं विना । आद्यादनतपोनन्द्यालोचनादिषु भं शुभम् ॥ १ ॥" मुनयोल्पज़लैर्वस्त्राणि क्षालयन्ति, ततः पूर्वाह्ने अपराह्ने वा ऐर्यापथिक प्रतिक्रम्य मुखवस्त्रिकां प्रतिलिख्य द्वादशावर्तव - न्दनकं दत्त्वा क्षमाश्रमणपूर्व भणति “भगवन् छमासिकायसंदिसावओ भगवन् छमासिकायपडिगाह” गुरुः कथयति “ संदिसावेह पडिगाहेह” ततो मुनियुग्मं संघहं विधाय पूर्वोक्तयुक्तया तृतिकरणं गृहीत्वा गृहस्वगृहं प्रतिनिर्गच्छति, तत्र शुभाशुभशकुनान्वेषणं कुर्यात्, यदि शुभं शकुनादि भवति तदा गन्तव्यं, नोचेदन्यस्मिन् शुभदिने कल्पतर्पणारम्भो विधेयः, शुभे शकुने तु गृहस्थगृहं गत्वा तृप्तिकरणे प्रासुकजलं गृहीत्वा ततो गृहस्थकांस्यकञ्चोलकेन सधवाकरेण कल्पतर्पणजलं स्कन्धकम्बलिकाञ्चलयुतेन दक्षिणहस्तेन धारयित्वा तयैव रीत्या वसतिमानयेत् शुभपट्टकोपरि स्थापयेच । ततः सर्वेपि साधव ऐर्यापथिकीं प्रतिक्रम्य For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310