Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 277
________________ आचार दिनकरः ॥ १३२ ॥ | गुरुज्येष्ठान् क्रमेण स्तोकोदकेन पादौ प्रक्षाल्य कल्पतर्पणं गृह्णन्ति, तस्येयं रीतिः – कल्पतर्पणग्राही पट्टकस्थः पादौ भूमावस्पृष्टौ कुर्यात्, मिलितौ करौ च प्रसारयेत्, ततोन्ययतिर्लघुरजोहरण्यग्रेण कल्पतर्पणजलं मनागमनाग् विकिरति, स च तद्राही पूर्व कराभ्यां गृह्णाति, तत अघ उपरि करौ निधाय च ततः स्कन्धसंमुखं लानमुद्रया, ततः पट्टसंमुखं च ततो मुनयः खखोपकरणानि प्रतिलिख्य प्रतिलिख्य कल्पतर्पणजलेनाभि* षिञ्चन्ति वसतिं च तथैव । इति कल्पतर्पणविधिः । अयं च विधिः कार्तिक कृष्णप्रतिपदनन्तरमपि विधीयते, तथा च प्रमादात् संनिधिस्थित्यां सिद्धान्तस्य च वाचने || नवरात्रद्वयेऽतीते कल्पतर्पणमिष्यते ॥ इति वसन्तचर्या ॥ "अथ ग्रीष्मे च मुनयः कायोत्सर्गपरायणाः । आतापयन्त आत्मानं कुर्वन्त्यातपसेवनम् ॥ १ ॥ न शीतलजलाकाङ्क्षां न शीतस्थानसेवनम् । न पानकादिपानं च कुर्वते स्नानमेव च ॥ २ ॥ वैयावृत्यकृतां कापि सन्तोषाय मुनीश्वराः । गृह्णन्ति पानकादीनि शीतस्थानजलादि च ॥ ३ ॥ सहन्ते प्रायशस्तत्र मलदंशपरीपहम् । नाति च कुर्वते कापि न रतिं च मुनीश्वराः || ४ || अस्नानव्रतमादिष्टं मुनीनां सर्वदा जिनैः । ग्रीष्मे विशेषात् सिद्धान्तमध्योक्तमभिधीयते ॥ ५ ॥ संतिमे सुहमा पाणा घसासु भिलुगासु य । जेउ भिक्खू सिणायंतो (ते) विडे लुपिलाए ॥ ६ ॥ तम्हा ते न क्षिणायंति सीएण उसिणेण वा । जावज्जीवं वयं घोरं असिणाणमहिगा || ७ || सिणाणं अदुवा कप्पं लद्धं पउमगाणिआ । गायस्सु वहणट्ठाए नायरंति कयाइवि ॥ ८ ॥ ग्रीष्मे षट्पदिकारक्षां विशेषात् कुरुते मुनिः । चिरकालोषितं पानमन्नं प्रासुकमुज्झति ॥ ९ ॥” इति । Jain Education Inter For Private & Personal Use Only विभागः १ ऋतुचर्या - विधिः ॥ १३२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310