________________
आचार
दिनकरः
॥ १२६ ॥
Jain Education Inte
स्वयमेव बोधिमाप्ताः, अर्हतां तु चोलपट्टाद्युपधिश्रुतलिङ्गादि न, तदपरेषां स्वयं बुद्धानां बोध्युपधिश्रुतलिङ्गादि भवति, तेषां बोधिः पूर्वजन्मस्मरणेन, उपधिस्तु तस्य द्वादशधा - मुखवस्त्रिका रजोहरणं २ कल्पत्रयं ३ पात्रनिर्योगः १२ इति स्वयं बुद्धसाधूनां द्वादशधोपधिः । तेषां च श्रुतं पूर्वाधीतं तद्भवाधीतं च भवति, तस्य च लिङ्गं देवतापर्यति । अथ कल्पिताः सुगुरवः, स यद्येकाकी विहरति तादृशी वा तस्येच्छा तदा तथैव विह* रति, नो चेद्गच्छवासमनुसरति च । अथ प्रत्येकबुद्धसाधूनामस्यामवसर्पिण्यां चतुर्णां करकण्डु १ दुर्मुख २ नमि ३ नग्नकनाम्नां ४ वृषभदृष्टान्तेन जलददृष्टान्तेन वलयदृष्टान्तेन रसालद्रुमदृष्टान्तेन क्रमाद्बोधिरभूत् । तेषां जघन्य उपधिर्मुखवस्त्रिकार जोहरणाभ्यामेव, अथवा मुखवस्त्रिकारजोहरणाभ्यां सप्तविधपात्रनियोगेन च उत्कृष्टो नवविध उपधिर्भवति । तेषां श्रुतं पुनस्तेषां पूर्वभवाधीतमेव जघन्यमेकादशाङ्गी, उत्कृष्टं च दशोनानि दशपूर्वाणि तेषां लिङ्गं रजोहरणादि शासनदेवता ददाति, अथवा लिङ्गरहिता अपि भवन्ति, ते महारण्यं गृहमिव विहरन्ति । प्रत्येकबुद्धानामियं स्थितिरिदमुपकरणम् । अथ साध्वीनामुपकरणानि यथा -चतुर्दश तान्येव स्थविरकल्पियतिसत्कानि एकादश चान्यानि यथा - अवग्रहणांतक १ प २ अद्धरुकं ३ चलणिका ४ आभ्यन्तरी ५ बाह्यनिवसनी ६ कञ्चुकं ७ उत्कक्षी ८ वैकक्षी ९ संघाती १० स्कन्धकरणी च ११ इत्योघेन व्रतिनीनां पूर्वैस्सह पञ्चविंशतिरूपकरणानि । अथ तेषामुपयोगो यथा - अवग्रहणान्तकं गुह्यरक्षार्थ देहसङ्गेन घनमसृणवस्त्रमयं सुष्ठु बद्धं धार्यते गुह्यदेहप्रमाणं १ पट्टस्तु देहप्रमाण एकः कटिप्रतिबद्धो मल्लक
For Private & Personal Use Only
विभागः १
अहोरात्र
चर्याविधिः
॥ १२६ ॥
www.jainelibrary.org