SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat अष्टाविंशतितम उदयः । अथ प्रवर्तिनी पदस्थापनाविधिः । इह केचित् प्रवर्तिनीपदं महत्तरापदमेकाभिधानमेव भाषन्ते । केचिच्च पृथक् । अस्माभिश्च सर्वगच्छाचार्योपाध्यायसम्मत तथा पृथगेव उच्यते । तत्र प्रवर्तिनीपदार्हा व्रतिनी यथा - "जितेन्द्रिया विनीता च कृतयोगा धृतागमा। प्रियंवदा प्राञ्जला च दयार्द्रीकृतमानसा ॥ १ ॥ धर्मोपदेशनिरता सस्नेहा गुरुगच्छयोः । शान्ता विशुद्धशीला च क्षमावत्यतिनिर्मला ॥ २ ॥ निःसङ्गा लिखनाद्येषु कार्येषु सततोद्यता । धर्मध्वजाग्रुपधिषु | करणीयेषु सत्तमा ॥ ३ ॥ विशुद्धकुलसंभूता सदा स्वाध्यायकारिणी । प्रवर्तिनीपदं सा तु व्रतिनी ध्रुवमर्हति ॥ ४ ॥ इति प्रवर्तिनीपद योग्यव्रतिनीलक्षणम् ॥ प्रवर्तिनी पदस्थापनाविधिरभिधीयते । यथोक्तगुणयुक्ताया व्रतिन्याः कृतलोचायाः कृतमालुकस्तोकजलनानायाः श्राद्धजनकृतेन महता महोत्सवेन प्रवर्तिनीप दग्रहणं विधीयते । तत्र समवसरणस्थापनं प्रवर्तिनी पूर्ववत् त्रिः समवसरणं प्रदक्षिणयेत् । ततः सदशवेषरजोहरणमुखवस्त्रिकाधारिणी क्षमाश्रमणपूर्व निषद्यासीनस्य गुरोर्भगति "इच्छाकारेण तुझे अह्मं पवतिणीपयारोवणियं नंदिकावणियं वासक्खेवं करेह चेइ आई च वंदावेह" ततो गुरुर्वर्द्धमानविद्याभिमन्त्रित वासैर्वासक्षेप करोति । ततो गुरुप्रवर्तिन्यौ वर्द्धमानाभिः स्तुतिभिश्चैत्यवन्दनं कुरुतः । श्रुतशान्तिक्षेत्रादि For Private & Personal Use Only jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy