Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ अभिज्ञानशाकुन्तलम् [प्रथमोअत्र यथा-'एकतारं नभो न पश्ये'दित्यादिवाक्यानां-गगनस्य साक्षादर्शनाऽसम्भवेऽपि, गुणप्रत्यक्षेण गुणिप्रत्यक्षमाश्रित्यौपचारिकतयोपपादनं क्रियते, एवमेवात्रापि गगनस्य शब्दप्रत्यक्षेण प्रत्यक्षत्वव्यवहार औपचारिक इति सूचनाय-श्रोत्रेन्द्रियग्राह्यशब्दगुणवत्त्वं नभसि विशेषणमुपादीयते / एवञ्च शब्दस्य प्रत्यक्षज्ञानसत्त्वान्नमसोऽपि तदाश्रयस्य प्रत्यक्षत्वमुपचर्यते इति–साधु सूचितम् / ___ अनेनैव श्लोकेनैतन्नाटकप्रतिपाद्यो विषयोऽपि सूचनीयः / तथा च विश्वनाथः 'रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः' इति / स चेत्थं-(१) या स्रष्टुराद्या = श्रेष्ठा, सृष्टिः = कृतिः-शकुन्तला, सौन्दयातिशयशालित्वातू / (2) या च-विधिहुतं = गर्भाधानादिविधिना निहितं, हविः= लक्षणया-दुष्यन्त-बीजं,-वहति = धत्ते / तेनास्या गर्भावस्था सूचिता / (3) या च होत्री = कण्वो मुनिः / (4) ये द्वे = सख्यौ, कालं = शापावसानकालं, विधत्तः= धारयतः, जानीतः। एतेनानुसूया-प्रियंवदे सख्यौ निर्दिष्टे / (5) श्रुतिविषयो गुणानाम् अयः= शुभावहो विधिर्यस्याः सा-'श्रुतिविषयगुणाऽया' / एतेन-शकुन्तलाऽऽगमनं, तत्तिरोधानं च सूचितम् / विषयो देशोऽपि, तेन-श्रुतोविषयैः = विषयवास्तव्यैर्लोकैर्गुणानामयः-शुभावहो विधिर्यस्याः-सेत्येवमपि तस्या दुष्यन्तराष्ट्रागमनं सूच्यते / (6) विश्वं व्याप्य = सकलं लोकं विलय स्थितेति सुदूरकश्यपाश्रमनिवासः सूच्यते / (7) 'यामाहुः सर्वबीजप्रकृति' रित्यनेन-नामैकदेशे नामग्रहणात्सर्वदमनाख्यबीजस्य योनिरुत्पत्तिकारणमित्यर्थलाभात्-सर्वदमनः कुमारः, तदुत्पत्तिर्वा सूच्यते / (8) 'यया प्राणिनः = प्रजाः, प्राणवन्तः = प्रहृष्टा' इत्यनेन शकुन्तला-सर्वदमन-दुष्यन्तानां पुनः स्वराज्ये प्रत्यागमनम् / ईशः= राजा दुष्यन्तः, इत्थमष्टाभिस्तनुभिर्विभूतिभिः, प्रपन्नः= युक्तः, अष्टलोकपालांशत्वादष्टाभिः 7 पृथिवी 8 वायु। ये आठों मूर्तियाँ (भगवान् के आठों स्वरूप) जगत् प्रसिद्ध हैं और प्राणिमात्र को इनका अनुभव प्रत्यक्ष होता है / इन आठों मूर्तियों से विरा जमान होने कारण ही भगवान् श्रीशिवजी का नाम 'अष्टमूर्ति लोक में प्रसिद्ध है। जैसे अमर कोश में लिखा है-'अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9ab0443f0a77f58530fe07435acb0830bfdaedb1653b90f2520c897cbdf7c3a5.jpg)
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 640