Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 547
________________ ५ नारक-काण्डः । ५४७ प्रभायां त्रिंशल्लक्षाणि, शेषासु क्रमेण पञ्चविंशतिः, पञ्चदश, दश, त्रीणि च लक्षाणि पश्चोनं चैकलक्षमित्या षष्ठ्याः ॥ ४ ॥ सप्तम्यां तु पश्चैव नरकावासा भवन्तीति । आदिप्रहणात् रौद्र-हाहारव-घातनादयो गृह्यन्ते ॥ अथ पातालं वडवामुखम् ॥ ५ ॥ बलिवेश्माधोभुवनं नागलोको रसातलम् । पतन्यस्मिन् पातालं " पतिकृलूभ्यो णित् " ॥ (उणा-४७९ ) ॥ इत्यालः पातमलतीति वा ॥ १॥ वडवामुखमिव मुखमस्य वडवामुखम् ॥ २ ॥ ५ ॥ बलेवैरोचनासुरस्य वेश्म बलिवेश्म ॥ ३ ॥ अधस्ताद् द्यावापृथिव्योभुवनमधीभुवनम् ॥ ४ ॥ नागानां लोको भुवनं नागलोकः ॥ ५॥ रसायावलमधो रसातलम् , रसा भूस्तलं पृष्ठमस्य वा ॥६॥ एकदेशेन तलं, रसा चापि ॥ रन्धं बिलं निर्व्यथनं कुहरं शुषिरं शुषिः ॥ ६ ॥ छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् । रध्यति रन्ध्र “खुरक्षुर-" ॥ ( उणा-३९६ ) ॥ इति रे निपात्यते ॥१॥ बिलति भिनत्ति विलम् ॥ २ ॥ निय॑थ्यन्तेऽमेन नियंथनम् ॥ ३ ॥ कुह्यते कुहरम् " मृयुन्दि-" ॥ ( उणा-३९९) इति किदरः, कुत्सितं हरतीति वा, कुं हरति, शून्यत्वादिति वा ॥४॥ शुष्यत्यस्मिन् शुषिरं "शुषीषि-"॥ ( उणा-४१६ ) ॥ इति किदर:, शुषिरस्यास्तीति वा, मध्वादित्वाद्रः, शुषिर्धर्ममात्रेऽपि मधुवत् ॥५॥ शुध्यत्यस्यां शुषिः "नाम्युपान्त्य-" ॥ ( उणा-६०९) इति किदिः स्त्रीलिङ्गोऽयम् , वैजयन्ती तु-'श्वभ्रं नक्ली शुषिर्वपा' इति पुंस्यप्याह । 'सुष्ठु स्यति सुषि सादिः' इत्येके ॥ ६ ॥ छिद्यते छिद्रं " ऋज्यजि-" ॥ (उणा-३८८) ॥ इति किद रः ॥ ७ ॥ रुप्यति विमोहयति रोपम् ॥ ८ ॥ विवियते विवरम् नी ९॥ निमिमीतेऽत्र निम्नं "युसुनिभ्यो माडो डित् " ॥ ( उणा-२६६)॥ इति नः ॥ १० ॥ रोचते प्रकाशतेऽनेन रोकम् ॥ ११ ॥ उप्यतेऽस्यां वपा, भिदादित्वात् साधुः ॥ १२ ॥ अनित्यनेनान्तरम् ॥ १३ ॥ गत-श्वभ्रा-ऽवटा-ऽगाध-दरास्तु विवरे भुवः ॥ ७ ॥ - गिरति गर्तः पुंस्त्रीलिङ्गः “दम्यमि-" ॥ ( उणा-२०० ) ॥ इति तः ॥१॥ श्वयति श्वत्रं " खुरक्षुर-" || (उणा-३९६) ॥ इति रे निपात्यते, श्वभिभ्रान्तमिति वा ॥ २ ॥ अवत्यस्मादवटः “ दिव्यवि-" ॥ (उणा-१४२) ॥ इत्यटः, न वट

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620