________________
५ नारक-काण्डः ।
५४७
प्रभायां त्रिंशल्लक्षाणि, शेषासु क्रमेण पञ्चविंशतिः, पञ्चदश, दश, त्रीणि च लक्षाणि पश्चोनं चैकलक्षमित्या षष्ठ्याः ॥ ४ ॥ सप्तम्यां तु पश्चैव नरकावासा भवन्तीति । आदिप्रहणात् रौद्र-हाहारव-घातनादयो गृह्यन्ते ॥
अथ पातालं वडवामुखम् ॥ ५ ॥
बलिवेश्माधोभुवनं नागलोको रसातलम् । पतन्यस्मिन् पातालं " पतिकृलूभ्यो णित् " ॥ (उणा-४७९ ) ॥ इत्यालः पातमलतीति वा ॥ १॥ वडवामुखमिव मुखमस्य वडवामुखम् ॥ २ ॥ ५ ॥ बलेवैरोचनासुरस्य वेश्म बलिवेश्म ॥ ३ ॥ अधस्ताद् द्यावापृथिव्योभुवनमधीभुवनम् ॥ ४ ॥ नागानां लोको भुवनं नागलोकः ॥ ५॥ रसायावलमधो रसातलम् , रसा भूस्तलं पृष्ठमस्य वा ॥६॥ एकदेशेन तलं, रसा चापि ॥
रन्धं बिलं निर्व्यथनं कुहरं शुषिरं शुषिः ॥ ६ ॥
छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् । रध्यति रन्ध्र “खुरक्षुर-" ॥ ( उणा-३९६ ) ॥ इति रे निपात्यते ॥१॥ बिलति भिनत्ति विलम् ॥ २ ॥ निय॑थ्यन्तेऽमेन नियंथनम् ॥ ३ ॥ कुह्यते कुहरम् " मृयुन्दि-" ॥ ( उणा-३९९) इति किदरः, कुत्सितं हरतीति वा, कुं हरति, शून्यत्वादिति वा ॥४॥ शुष्यत्यस्मिन् शुषिरं "शुषीषि-"॥ ( उणा-४१६ ) ॥ इति किदर:, शुषिरस्यास्तीति वा, मध्वादित्वाद्रः, शुषिर्धर्ममात्रेऽपि मधुवत् ॥५॥ शुध्यत्यस्यां शुषिः "नाम्युपान्त्य-" ॥ ( उणा-६०९) इति किदिः स्त्रीलिङ्गोऽयम् , वैजयन्ती तु-'श्वभ्रं नक्ली शुषिर्वपा' इति पुंस्यप्याह । 'सुष्ठु स्यति सुषि सादिः' इत्येके ॥ ६ ॥ छिद्यते छिद्रं " ऋज्यजि-" ॥ (उणा-३८८) ॥ इति किद रः ॥ ७ ॥ रुप्यति विमोहयति रोपम् ॥ ८ ॥ विवियते विवरम् नी ९॥ निमिमीतेऽत्र निम्नं "युसुनिभ्यो माडो डित् " ॥ ( उणा-२६६)॥ इति नः ॥ १० ॥ रोचते प्रकाशतेऽनेन रोकम् ॥ ११ ॥ उप्यतेऽस्यां वपा, भिदादित्वात् साधुः ॥ १२ ॥ अनित्यनेनान्तरम् ॥ १३ ॥
गत-श्वभ्रा-ऽवटा-ऽगाध-दरास्तु विवरे भुवः ॥ ७ ॥ - गिरति गर्तः पुंस्त्रीलिङ्गः “दम्यमि-" ॥ ( उणा-२०० ) ॥ इति तः ॥१॥ श्वयति श्वत्रं " खुरक्षुर-" || (उणा-३९६) ॥ इति रे निपात्यते, श्वभिभ्रान्तमिति वा ॥ २ ॥ अवत्यस्मादवटः “ दिव्यवि-" ॥ (उणा-१४२) ॥ इत्यटः, न वट